________________ श्रीपार्श्वस्तवावचूरिः। छ। 4. अर्बुद-जीरापल्ली तीर्थस्तवः [आर्याच्छन्द] श्रीअर्बुदाद्रिमुकुट-श्रीजीरापल्लितीर्थसुप्रथितिम्। स्तौमि श्रीमत्पाद्यं, जिनर्षभं श्रीशिवाङ्गभुवम्॥१॥ अवचूरिः- ऋषभपक्षे-अर्बुदाद्रिमुकुटश्चासौ श्रीजीरापल्लितीर्थेनासन्नत्वात् सुप्रसिद्धश्च / श्रीपार्श्व समीपं यस्य। श्रीशिवानामङ्गमभ्युपायो धर्मस्तदुत्पत्तिपदम्। नेमिपक्षेप्येवं। परं जिनर्षभं जिनप्रवरं। पार्श्वपक्षेअर्बुदाद्रिर्मुकुटो यस्येदृशा जीरापल्लितीर्थेन सुप्रसिद्धम्॥१॥ तव सद्वर्ण्य सुवर्णश्रीधनरोचिष्णुरोचिरङ्गलता। कल्पलतातोऽप्यधिकं, दत्ते दृष्टाप्यभीष्टानि॥२॥ अवचूरिः- सुवर्णश्रीवद् घनं सान्द्रं 'रोचिष्णु रोचिः' यस्या। नेमि-पार्श्वपक्षे-शोभनवर्णश्री धनोमेयस्तद्वद्रोचिष्णु० // 2 // जयनाभिभूत! निःसमसुसंविदा श्रीसमुद्रविजयभव!। वामाङ्गज! जयहेतो, भवाब्धिसेतो! दुरितकेतो!॥३॥ अवचूरिः- निःसमसुसंविदां श्रीयुक्त समुद्रविजयस्य भवो जन्म यस्मात्। 'वाम' प्रतिकूलः अङ्गज' स्मरस्तज्जयहेतो। नेमिपक्षे-निःसमसुसंविदां नाभिभूताधारभूत / पार्श्वपक्षे- हे वामाङ्गज! हे जयहेतो! // 3 // बिभ्रद् वृषभासनतां, निर्मलजलजाङ्कितांहिकमलश्च। भोगीन्द्र सेव्यामानः, प्रभो! जय त्वं निरुपमानः॥४॥ अवचूरिः- भोगिनो ये इन्द्राः। नेमिपक्षे 'जलजः' शङ्खम् // 4 // श्रीअर्बदाद्रिविदित श्रीजीरापल्लितीर्थसु न वृषभ!। . श्रेयः समुद्रनेमे! देयाः श्रीसोमसुन्दरस्वपदम्॥५॥ ___ इति तीर्थद्वये जिनत्रयस्य प्रत्येकं स्तवस्त्र्यर्थः एतानि महोपाध्याय री रत्नशेखरग० वि०। अवचूरिः- श्रीजीरापल्लिः पार्श्वे यस्याश्रयसां समुद्रनेमिभूः। पार्श्वपक्षे-हे अर्बुदाद्रिणासन्नत्वात् सुप्रसिद्धिः। शेषं सुगमम्॥५॥ इति तीर्थद्वयस्तवावचूरिः॥६॥ 000 लेख संग्रह 221