________________ जगति गुरुः श्रीपार्श्वः, शुभदृष्ट्या दोषलक्षमपि मुष्णन्। पुष्णन् श्रियश्च जीयान्न कुत्रचिच्चित्रमतिचारी॥५॥ अवचूरिः- 'गुरुः' गरिमास्पदं, पक्षे-बृहस्पतिः। 'अतिचार:' चारित्रमालिन्यं, शीघ्रगतिश्च // 5 // गुरुपदलाभादुच्चः, श्रीपार्श्वः श्रेयसेऽस्तु सत्काव्यः। दोषाकरविद्वेषी न जानु यात्यस्तमिति तु नवम्॥६॥ अवचूरिः- गुरुपदं सिद्धिर्मीनराशिश्च, मीनराशौ हि शुक्र उच्चः, सद्भिः स्तुत्यः, पक्षे-संश्चासौ शुक्रश्च। दोषाणामाकरं विद्वेष्टी निःशीलः, पक्षे-दोषाकरश्चन्द्रो विद्वेषी यस्य / सिद्धौ शाश्वतोदयस्थितिकत्वात् शुक्रस्तु अस्तं यात्येव // 6 // परसिद्धियोगमस्तिस्तनुतां पार्श्वः प्रयोगतो ब्राह्मयाः। धर्म पुष्णन् धर्माश्रयेण न पुनः कचिन्नीचः॥७॥ अवचूरिः- 'असितः' नीलवर्णः शनिश्च, 'ब्राह्मी' वाणी रोहिणी च तस्याः 'प्रयोगतः' उपदेशादेः, प्रकृष्टयोगाच्च परसिद्धियोगं प्रकृष्टमुक्तिसम्बन्धं अमृतसिद्धियोगं च तनुतामित्यन्वर्थः। चारित्रधर्माश्रयेण चतुर्विधं धर्ममुपदेशादिना पुष्णन्, पक्षे-धर्म भवताश्रयणेन धर्मपोषी। शनिस्तु मेषे नीचः स्यात् / / 7 // दुरितभिदे दोषाकर-तमोरिपुग्रासलालसः पार्श्वः। कीर्त्या विधुन्तुदस्तान्न क्रूरः कौतुकं वापि॥८॥ अवचूरि:- दोषाणामाकरभूतं यत्तमोऽज्ञानं तदेव रिपुः शत्रुस्तस्य ग्रासे-विनाशे लालसा-श्रद्धा यस्य, पक्षे दोषाकरश्चन्द्रस्तमोरिपुः-सूर्यः तयोर्ग्रसनपरः। कीर्त्या विधुन्तुदश्चन्द्रस्य जेता, पक्षे-विधुन्तुदो-राहुः॥ 8 // श्रीवामेयोऽनवमस्त्रिजगति केतुः श्रियां परमहेतुः। जयतु स्फुरत्फणर्द्धिर्नवरं नित्योदयी शुभदः॥९॥ अवचूरिः- 'अनवमः' श्लाध्यः, पक्षे-नवमो नवसंख्यापूरणः। त्रिभुवने विभूषकत्वात् केतुर्ध्वज इव, पक्षे केतुनामा ग्रहः। पक्षे-परं केवलं श्रियामः हेतुः। उभयोरपि सफणत्वात्। केतुस्तु कदाचिदुदयी, उदितोप्यरिष्टकृच्च // 9 // श्रीपार्श्वस्तवमेवं, नवग्रहस्तवनगर्भमध्ये तु। श्रीसोमसुन्दरमतेरप्यशुभाः स्युर्ग्रहाः शुभदाः॥१०॥ इति श्रीवामेयस्तवनं नवग्रहस्तुतिगर्भ महोपाध्या. श्रीर. वि.॥ अवचूरि:- पाठकस्य इह तृन्। पूर्णेन्दुवत् सुन्दरा-निर्मला मतिर्यस्य // 10 // 220 लेख संग्रह