SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ मनीषिणां मानवखण्डना), विश्वेश्वर! श्रीनवखण्डपार्श्व!॥ 7 // अवचूरिः- यत् इत्यध्याहार्यम्। मानवखण्डनार्हपदस्य नवखण्डेति वर्णचतुष्क हीनत्वे मानार्ह इति "शिष्यते, ततो मनीषिणां, माननीय इत्यर्थसिद्धिः॥७॥ इति स्तुतः श्रीनवखण्डनामभृत, प्रसिद्धघोघापुरभूविभूषणः। पार्श्वः प्रभु श्रीगुरुसोमसुन्दरस्फुरदयशाः शाश्वतसम्पदोऽस्तु वः॥८॥ इति श्री भ० महोपाध्याय श्री र० वि०॥ इति श्रीनवखण्डपार्श्वस्तवावचूरिः। 3. नवग्रहस्तुतिगर्भ-श्रीपार्श्वजिनस्तवः [आर्यावृत्तम्] पार्श्वः श्रियेऽस्तु भास्वानजस्थितेरुच्चतां परां बिभ्रन्। विश्वप्रकाशकुशलः कुतुकं तु कलावदुल्लासी॥१॥ अवचूरिः- भास्वान् दीप्रसूर्यश्च, न जायत इत्यतः सिद्धः, पक्षे 'अजः' मेषराशिस्तत्रस्थ्ये हि रु रविरुच्चः स्यात्, निस्तुल आश्रयः सिद्धिलक्षणो यस्य, सूर्यस्तु तुलराश्याश्रयोऽपि स्यात् इति चित्रम्॥१॥ पार्श्वः स जयति सोमः, परमोन्नतिभृवृषप्रयोगेण। शैवे शिरसि निवासी चित्रं तु तमोग्रहग्रासी॥२॥ अवचूरिः- सौम्यश्चन्द्रश्च, 'वृषः' पुण्यं तत्प्रयोग-उपदेशादिना, पक्षे वृषराशेः प्रकृष्टयोगेन, मोक्षसम्बन्धिनि-ईशसम्बधिनि च। तमः अज्ञानं तदेव ग्रहो भूतादिस्तद्विनाशी, पक्षे तमोग्रहो राहुः॥ 2 // श्रीपा सदत्तनवार्चिषं नमत मङ्गलात्मानम्। पृथ्व्या नन्दनमद्भुतमवक्रमर्पितबुधमुदं च॥३॥ अवचूरिः- सच्छोभनं वृत्तं शीलं यस्य, पक्षे-शोभनश्चासौ वृत्तो वृत्ताकारश्च / नवमर्चि: तेजो ज्ञानरूपं यस्य, पक्षे-नवसंख्यकिरणम्। कल्याणमयात्मानं, पक्षेः मङ्गल' भौमः। पृथ्व्या आनन्दनं, पक्षे-पृथ्व्यासुतम्। मङ्गलस्य हि बुधो रिपुर्गीयते // 3 // वामाभूः श्यामाङ्गः, सौम्यस्तादमृतसिद्धियोगकृते। मैत्रीप्रयोगतो वः, कुतुकं तु कलावकल्लासी॥४॥ अवचूरिः- पक्षे-श्यामाङ्ग इति बुधनाम। पक्षे– 'सौम्यः' बुधः। मैत्रीप्रयोगेण वो मोक्षनिष्पत्तियोगाय स्तात् इति सम्बन्धः। पक्षे- मैत्र्यनुराधा तस्याः प्रयोगतो बुधो अमृतसिद्धियोगकृत्स्यात्। पक्षे बुधस्य हि चन्द्रो रिपुः॥४॥ लेख संग्रह 219 15
SR No.004446
Book TitleLekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy