________________ 71] इति सूत्रे तस्यैवेति नियमात् / यद्वा, अवशब्दश्चादिपठितो भर्त्सनार्थे, क्रियाविशेषणत्वेन योज्यः। भर्त्सनपूर्व विघ्नान् खण्डयन्तीति भावः। अथवा अवतीति अवि, अवस्ततो जिनसम्बोधनं हे अव! रक्षक!। दानवखण्डना इन्द्राः // 2 // माधुर्यधुर्या नवखण्डजैत्री, गीस्तेऽथ कार्शानवखण्डवारि!। भात्युधंदादीनवखण्डमाना, विश्वेश्वर! श्रीनवखण्डपार्श्व!॥ 3 // अवचूरिः- यत एव माधुर्यधुर्या तत एवाभिनवमधुधूलिजैत्री। अथान्येव कार्शा नवानि कृशानुसम्बन्धीनि खण्डानि ज्वाला इत्यर्थः, तत्र नीरसदृशाः। आदीनवान् दोषान् खण्डमाना मध्नन्ती शीलार्थे शानस्तेन मलयपवमान इति वत्समासः सिद्धिः। "श्रितादिभिः" [सि. हे. 3/1/62] इति सूत्रेण // 3 // नवप्रमुक्तानवखण्डलौटु भक्त्या कृतोच्चैर्नव खं डगद्भिः। श्रितान् भवार्तानवखण्डमुळ विश्वेश्वर! श्रीनवखण्डपार्श्व!॥ 4 // अवचूरिः- आनवखण्डलशब्दस्य नवप्रमुक्तत्वेन आखण्डलेति स्यात् / कृत उच्चैः स्तवो यस्य। 'खं' स्वर्गं, डलयोरैक्याल्लगद्भिः स्वर्गस्थैरित्यर्थः। उर्व्याः खण्डं पीठं श्रितान् भवार्तान् अवेति योगः॥ 4 // आम्नाति नो मानवखण्डनादौ, दर्पण येऽन्यानव खं डयन्ते। गिरोपि तैस्ते नवखण्डनीया, विश्वेश्वर श्रीनवखण्डपार्श्व!॥ 5 // अवचूरिः- मनोरिदं मानवं शास्त्रं स्मृत्यादि खण्डनग्रन्थ। नौतीति नवः, स्तोतः, न नवो अनवः, अन्येषामनवोऽन्यानवः त्रिजगतोऽपि स्तुत्यत्वात् / ये दर्पण 'खं' व्योमं डयन्ते' उत्प्लवन्ते। यद्वा, अवखण्डयन्तीति पाठस्ततो ये अन्यान् अवखण्डयन्ति-तिरस्कुर्वन्तीत्यर्थः। खंवं अवखण्डयितुमशक्याः॥ 5 // वितन्वते ते नवखण्डतिं ये, स्वभक्तितोऽर्हन्नवखण्डमाशु। ते नित्यनिस्तानवखं डभन्ते, विश्वेश्वर श्रीनवखण्डपार्श्व!॥ 6 // अवचूरिः- स्वार्थेतिक्प्रत्ययेन, न च शब्दयोगे च नवखण्डतिस्तं अवखण्डतिस्तं अवखण्डं वखण्डेति वर्णत्रयहीरमेतावन्तः निमित्यर्थः। निस्तानवमतुच्छं 'खं' सुखं डलयोरैक्याल्ल भते // 6 // व्याधींस्तथाधीनवखण्डसे तत्, त्वमेव विश्वे नवखण्डहीनः। लेख संग्रह 218