________________ गिरिभुवि हरिभावे बाहुलीलाविभिन्ना विरलनिविडपीडा सङ्गमे गाढखिन्नम्। परिभवपरिहारायेव वोढारमङ्के, हरिवरमरिहन्तं हे नरा! धत्त चित्ते॥२४॥ अवचूरिः- शालिक्षेत्रासन्नायां, प्राग्भवे त्रिपृष्ठवासुदेवत्वे बाहुलीलया यद्विभिन्नं क्लीबे क्तान्तत्वात् विदारणं, तेन निरन्तरा, निविडा वया पीडा तस्याः सम्पर्के / गाढखेदाद्यः परिभवः तदपहरणार्थमिव सिंहवरमङ्के वोढारम्। शीलार्थोऽत्र तृन् / अर्थात् श्रीवर्धमानम् // 24 // [शार्दूलविक्रीडितं छन्दः] इत्थं स्तोत्रपथं कथंचन जिना नीता विनीतात्मना, वृत्तैः प्राकृतसंस्कृतैः समुदितैस्तैः शौरसेन्या समैः। दधुः श्रीगुरुसोमसुन्दर मुदा स्वाद प्रसादं जवाद्, येनासौ रसिकेव केवलकला लीलायते मय्यपि॥ 25 // - इति संस्कृत-प्राकृत-शौरसेनीरूपभाषात्रयसमं . 24 जिनस्तवनम्। म० श्रीरत्नशेख० ग० वि० / अवचूरि:- श्रिया गुरुः सोमस्तद्वत् सुन्दराऽतिविशदायासु... तस्या आनुभवौ यत्र प्रसादे तं तथा // 25 // इति भाषात्रयसम 24 जिनस्तवावचूरिः। 2. श्रीनवखण्ड-पार्श्वस्तवः ___ (उपजाति-वृत्तम्) जय प्रभो! त्वं नवखण्डपृथ्वी प्रख्यातकीर्ते! नवखण्डमूर्ते!। भव्याब्जभानो! नवखण्डसंवित्, ... विश्वेश्वर! श्रीनवखण्डपार्श्व!॥ 1 // अवचूरिः- लोकप्रसिद्धया पृथ्वी नवखण्डा, सम्पूर्णासंवित् केवलज्ञानं यस्य // 1 // ते तत्क्षणेनाऽनवखण्डमुच्चै विघ्नानशेषानवखण्डयन्ति। ये त्वां स्तुयुर्दानवखण्डनाऱ्या, विश्वेश्वर! श्रीनवखण्डपार्श्व!॥ 2 // अवचूरिः- 'अनवं' जीर्णं ततो जीर्णखण्डं अवखण्डयन्तीति योगः। यथा जीर्णमना या सेनैव खण्ड्यते तथा ते विघ्नान् सर्वान् खण्डयन्ति। अत्र अनवखण्डं खण्डयन्तीति कृत्वा पश्चादवोपसर्गेण योगः प्रथममेवावोपसर्गयोगे त्वनवखण्डं, इत्यत्र "णम्" प्रत्ययस्य असम्भवः, "व्याप्याच्चेवात्" [सि. हे. 5/4/ लेख संग्रह 217