________________ बहुलमिह वहन्तं कुन्दमन्दारमल्ली, कुसुममसमवल्ली मञ्जुलं मल्लिदेवम्। चिरमुरसि वहामो भूरिताराऽविरामा वलिविमलविहायो मण्डलं किन्नु नीलम्॥ 19 // अवचूरिः- जात्युपेक्षमेकवचनम्। नीलवर्णत्वात्। भूरिताराणामविरामा अपारा आवलयो यत्र, विहायो मण्डले तत्तथा // 19 // कुवलवलयकायं कुन्दजिबन्तपाली ___च्छविभरपरिभोगं देवमल्ली पुरोगम्। तमरिहमिह सेवे वारिवाहं सवारि, किमसमविसकण्ठी मण्डलीलीढकण्ठम्॥ 20 // अवचूरिः- श्यामत्वात् कुवलमण्डलदेहं, श्रेणिबद्धत्वात् पालीव पाली तत्कान्तिभरस्य समन्ताद्भोगो यस्य, मुनिसुव्रतं, बलाकाश्रेण्याश्लिष्टः॥ 20 // जय! भुवि विजयं ते भासुराभूरिभासो, दमिवरनमिदेहे केलिगेहे कलासु। किमहिमकिरणाभा भाववन्तं नयन्ते, सुदिवसमविरामं चण्डभावं विहाय॥ 21 // अवचूरि:- जयोत्पत्तिस्थाने, दमिनो-मुनयः, अत्र षष्ठ्यर्थे सप्तमी, कलासु इत्यत्रापि। एताः किं रविकान्तयश्चण्डभावं त्यक्त्वा सौम्यत्वापन्नानत्यर्चादौ भावभाजं प्राणिनं निरन्तरं 'सुदिवसं' शोभनदिनं प्रापयन्ति / रविकान्तितुल्याभिर्नमिजिनतनुद्युतिभिर्भाविनां नित्यं श्रेयो दिनमेव क्रियते, इति भावः॥ 21 // हरिमरुधरमाणं कम्बुसम्बन्धबन्धुं, किमु इह बहुमन्ता कम्बुधारी चिरेण। नवनवभवकारावासवारी वरीयो, गवलविमलनामा नेमिनामा ममायम्॥ 22 // अवचूरिः- पुन्नपुंस्त्वात् कम्बुशब्दस्य क्लीबत्वं, ततो गुरुशङ्ख पाञ्चजन्याभिधानं धरन्तं, सम्बन्धेन बान्धवं कृष्णं बहुमंतेव कम्बुधारी अङ्के पाञ्चजन्यकम्बुधारिस्वबन्धुकृष्णबहुमानार्थमिव स्वयमप्यङ्के कम्बुभृदित्युत्प्रेक्षा। अत्र शीलार्थस्तृन्, तेन तत्कर्मणि द्वितीया। भवभवभवा एव कारा गुप्तिगृहाणि तत्र वासं वारयतीत्येवंशीलः, अस्तु इत्यध्याहार्यं च। वरतरं वनमहिषवन्निर्मलं धाम वपुः सम्बन्धि यस्य, जिनः॥ 22 // फणिगुरुफणिमालालम्बिचूला महीयो, मणिगणकिरणाली सङ्गरङ्गावगाढम्। अरिहमुरुमहेला सिद्धिसम्पन्नरागा रुणमिव गुरुगेयं चित्तधेयं धरेयम्॥२३॥ अवचूरिः- फणिगुरुर्धरणेन्द्रस्तत्फणमालायामालम्बिनो ये चूडासु महत्तरा मणयः, सङ्गेन यो रङ्गोरक्तिमा तेन व्याप्तम्, अर्थात्पार्श्वम्, विश्वेपि गरिमास्पदत्वेनोरुमहेलात्वं सिद्धेर्युक्तम्। तस्यां सम्पन्नो यो / रागस्तेन रञ्जितमिव, गुणैर्गेयम्, चित्ते धेयं धारणाहँ, तत एवाहं धरेयमर्थाच्चित्ते // 23 // 216 लेख संग्रह