________________ अवचूरिः- निन्द्यं, अभिप्रायगतं मे अवहरन्तु, इति योगः। अर्थात् सुपार्श्वः / इवार्थे, युगपत्, परित्यक्ता, . पञ्चफणानां पञ्चबाणीवेत्युत्प्रेक्षा // 7 // सममिव हिमभाजि देहदन्तोरुकूलं धयधवलकरालं सारिभावारिणेदम्। समलममलयन्तं भूविहायोऽहिगेहं, हिमकरधरमङ्के देवदेवं नुवामि॥ 8 // अवचूरिः- युगपदिव इदं वा 'अमलयन्तं' इत्यत्र योज्यम्। हिमभासां जैत्रदेहस्य दन्तानां तथोरुकूलंधय ऊरुतटस्थायी यो धवलकरो लाञ्छन चन्द्रस्तस्य चात्यर्थप्रसारिकान्तिजलेन क्रमात् पृथ्व्याकाशपातालानि निर्मलयन्तमिव, अङ्के चन्द्रभृतं अर्थाच्चन्द्रप्रभम्॥ 8 // नरवर! कुरु रामानामरामालिचूडा मणिभुवमभवन्तं चित्तवासे वसन्तम्। नवमममलभासं भासमिद्धोरुभाल ___च्छलधवलकराभासं करेणेव विद्धम्॥९॥ अवचूरिः- 'रामा' नाम्नी या स्त्री श्रेणिचूडामणिस्तज्ज्ञं सुविधिमित्यर्थः। चित्तवासस्थाने वसन्तं 'कुरु' इति अन्वर्थः। शुक्लः कान्तिदीप्तौ गुरुश्च, यो भालच्छलांद्धवलकरश्चन्द्रस्तत् कान्तिसङ्गमेन व्याप्तमिव सन्तं अमलभासम्॥ 9 // निरवमतमनन्दासुन्दरोदारतुन्दि ___च्छलसलिलरुहाली केवली केवलाय। नवमरसनिलिम्पाहारसाराभिरामं, नवमचरमकुण्डं किन्तु भूखण्डमण्डि॥१०॥ अवचूरिः- अनिन्द्यतमाया नन्दायाः सुन्दरोदाराया तुन्दिः-कुक्षिस्तच्छलकमलेऽली-भ्रमरः, अर्थाच्छीतलः, अस्तु इति योगः। शान्तरस एव निलिम्पाहारः सुधा, नवमचरमं-दशममित्यर्थः। पातालेन वसुधाकुण्डानि शीतलस्तु भूखण्डस्थ दशमसुधाकुण्डमिव // 10 // . भवभयजयि नन्दाभू पुरोगामि दन्त च्छविनिवहभवामाभूरिभद्रङ्करा मे। इह किल कलयन्ती भाववन्दारुदेवा सुरनरवरभाले काममुत्तंसकेलिम्॥ 11 // अवचूरिः- भवभयजयी यो नन्दाभुवः शीतलजिनात् पुरोगामी श्रीश्रेयांसः, शोभा॥ 11 // . दुरवमपरमोहं हन्तु मोहं जयाभू, ___रविनववसुहासी कासरेणावभासी। सहजलजलवाहालिङ्गिभागाभिरामो दयगिरिगरिमाणं हन्त! धत्ते किलायम्॥१२॥ अवचूरिः- दुष्टो गर्यः परम ऊहा यत्र, वासुपूज्यः, रक्तवपुःश्रिया, लक्ष्ममहिषेण, सजलजलदालिङ्गी यो भागस्तदभिरामोदयाद्रिशोभाम्॥ 12 // 214 लेख संग्रह