________________ भविविभुमभिवन्दे सम्भवं सम्भवन्तं, ___ निविडजडिमभङ्गेऽभङ्गरङ्गेण गेयम्। तरणिहयवरेणाबद्धसेवं निबोधो दयरयविरलाहङ्कारभारेण किन्नु?॥३॥ अवचूरिः- भविना-प्राणिनां प्रकरणाद् गणभृदादिकानां, तृतीयं जिनं, निविडजडिम्नो भङ्गे सम्भवन्तं' घटमानं इत्यर्थः। अर्थात् इन्द्रादिभिः, अङ्ककैतवान्, विशिष्टो बोध:- केवलज्ञानं तस्योदये तत्कालमेव लोकालोकव्यापकत्वात् यो 'रयः' वेगस्तेन विरलः दूरीभूतः 'अहङ्कारभार' वेगविषयो यस्य ईदृशेनेव // 3 // समसमयमिवालं चञ्चलं चित्तमंका हरणहरिवरं वाऽचञ्चली भावयन्तम्। उरसि विरसभावं हन्त! हन्तुं तुरीयं, ____ तमरिह रमणीयं धारणीयं धरेऽहम्॥४॥ अवचूरिः- अत्यर्थं चपलं 'चित्तं' तथा अंके आहरणं आनयनं यस्य तं 'हरिवरं' कपिवरं च 'समसमयं' युगप्पद् अचञ्चली-भावयन्तम्-स्थिरीकुर्वाणमिव चित्तं, कपिश्च प्रकृत्यातिचपले, तद्वयमपि स्वामिपार्श्वे सुस्थिरं दृश्यते इतीयमुत्प्रेक्षा। विरसभावं' प्रकरणात् सांसारिकक्लेशसम्भवं हन्तुं', 'हन्त! इति प्रीतौ।' यदाह शाकटायनः- 'हन्त ! सम्प्रदान-प्रीति विषादेषु' इति / तुरीय' चतुर्थं तं गुणैर्जगत्प्रसिद्ध अर्हद्धरं श्रीअभिनन्दननामानं उरसि इत्यस्योभयत्र सम्बन्धाद् उरसि धारणाहँ, उरसि धरेऽहम् / इति संटङ्कः॥४॥ असमसमयपारावारपारीणरीण ___च्छलचरणधुरीणच्छन्नमच्छिन्नमीडे। महिमभरनिरुद्धा-मङ्गलं मङ्गलाभू विभुमिदमसुबद्धं मङ्गलाकारणं तु॥५॥ अवचूरिः- असमसिद्धान्ताब्धिपारीणा गतच्छलाश्च ये 'चरणे' चारित्रे धुरीणा-यतयस्तैः सेव्यत्वेन 'छन्नं' व्याप्तं निरन्तरं स्तौमि। महिमभरेण निरुद्धं-निषिद्धं 'अमङ्गलं' जगतोऽपि येन तं तथा मङ्गलाङ्गजजिनं श्रीसुमतिं इत्यर्थः / इदमसम्बद्धं-यो मङ्गलाभूः स मङ्गलायाः कारणं कथम्? / विरोधाभावपक्षे-मङ्गलानामाकारणं निमित्तत्वादाकारणं-आकर्षणं इति भावः। मङ्गलानामाकारणं यस्मात् इति बहुव्रीहिर्वा // 5 // तमुदयगिरिचूलाचुम्बिभूच्छायभूरि च्छिदुरतरणिबिम्बाभङ्गधामाभिरामम्। सहभवमिव रागं कुङ्कमाभं वहन्तं, वहविदुरसुसीमासम्भवं देवदेवम्॥ 6 // अवचूरिः- 'तं' प्रसिद्ध उदयाचलचुम्बीत्यनेन अभिनवं भूच्छायस्य तमसौ भूरिच्छिदुरेत्यनेनातिदीप्रं यत्तरणिबिम्बं तद्वदभङ्गं यद्धामाऽर्थादारक्तवर्णं वपुस्तेजः नव्यरवेराताम्रधामत्वात् तेनाभिरामं, इदं जिनविशेषणम्। सहजमिव कुङ्कमाङ्गरागं वहन्तं हृदीति शेषः, श्रीपद्मप्रभम् // 6 // अवममवहरन्तुच्छन्दसञ्चारिपञ्चा नणुसमणिफणा मे देवदेवोरुदेहे। रणभुवि किल भने भारवीरेण दूरं, सममिह परिहीणा पञ्चबाणी रयेण॥७॥ लेख संग्रह 213