________________ दिनपतिः देवौपम्यमहो वहन्ति सकला लोकाश्च यद्वासिन स्तत्किं देवपुरेण विक्रमपुरं न स्पर्द्धते साम्प्रतम्? // 11 // अथ देवो रवेर्मुखमालोक्य, ननु भो दिनपते ! गुरुणा मदुपमोऽयमभिहितो भूपः, प्रतिदिनं गगनं गाहमानेन भवताऽऽ लोकितोऽपि किं न ज्ञापितः? / - सत्रपम्, स्वामिन् ! मत्सन्ततिगुणोत्कीर्तनं ममैव नोचितम्, तथापि रहस्यमेतदेव / मदन्वये भूपतयो महान्तः, सन्तीह काले बहवस्तथापि। सुजाणसिंहाह्वयभूमिपाते, जाते तुं वंशं कलयामि धन्यम् // 12 // अथ शशधरमुपसृत्य, दिनकरः- वयस्य निशापते त्वमेव विस्तरेण देवपादानां पुरस्तत्कीर्ति कीर्त्तय, भट्टारकाः श्रोतुमन[स]स्सन्ति। शशधरः भवतु, स्वामिन्!, भूपाला बहवो भवन्तु भुवने सूर्येन्दुवंशोद्भवा, ये न न्यायविदो न चापि निपुणा नाचारसञ्चारिणः। किं तैः कापुरुषैः कलेः सहचरै भारभूतैः सदा, सत्येवाऽथ सुजांनसिंहनृपतौ राजन्वती भूरियम्॥ 13 // नि:स्वानेषु नदत्सु देशपतयो नश्येयुरस्याऽरयोऽरण्यं चैव विशेयुराशु चकिताः स्युः श्वापदौघास्ततः। ते किं त्वाधिवसेयुरित्यवनिकाक्षोभावनव्याकुला, * दिग्यात्राप्रतिषेधमेवमनशे सन्त्यस्य दिग्दन्तिनः॥ 14 // यो देवान् यजते प्रजाहितकृते वर्यान् द्विजान् वन्दते, धत्ते भक्तिमथाऽच्युते प्रतिदिनं सन्मानयत्यर्थिनः / साधूंस्तोषयति द्विषो दमयति क्षमापालमालेश्वरः, सोऽयं श्रीमदनूपसिंहनृपतेः सूनुर्न कैः स्तूयते // 15 // कृतयुगप्रवृत्तिरेवाऽयम्। शशधरः पुनः किम्। उर्वश्यभिमुखमालोक्य, आर्ये ! इत एहि / उपसृत्य उर्वशी: उवट्ठियाम्हि, अज्जा भट्टिणो किमाणविंति? आर्ये!, निर्जरसो जगत्कृत्ये नियोजयितव्याः सन्तीत्यत इमेऽधुना स्वास्थ्यं लभन्ताम्। भवत्येव सतन्त्र्या तत्रत्यवृत्तिं मधुरया प्राकृतगिराऽऽवि:करोतु / अथ प्राकृत उर्वशीः .. - सामीणं आणा पमाणं, अह दाव सुणेह तस्सेव रण्णो कुमारचरियं: मणहरसमियवयणो घणमित्तजुओ पत्तारगुम्महणो। सिर(रि )जोरावरसीहो जयइ कुमारो कुमारुव्व // 16 // अथोर्वशी रतिं विलोक्य स्मित्वा च, लेख संग्रह देवः देवः 177