SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ येभ्यः प्राप्य गुणालयः खरतरो गच्छः प्रतिष्ठां भुवि, श्रीमन्तोऽभयदेवसूरिगुरवस्ते स्युः सतां शर्मदा॥४॥ तत्पट्टोदयंशैलवासरमणि: संविग्नचूड़ामणिः, श्रीमान् श्रीजिनवल्लभोऽभवदलं स्वीयैर्गुणैर्वल्लभः / तत्पट्टेद्भुतकीर्तिमण्डलधरः श्रीजैनदत्तामिधः, सूरियैन जिताः सुपर्वनिकराः सोऽस्तु श्रिये श्रीगुरुः॥५॥ चन्द्रश्चन्द्रसमः स्वगच्छकुमुदे सूरीन्द्रचूडामणिः, श्रीयुक्तो जिनपत्तिसूरिरभवज्जैनेश्वरस्तत्पदे। जातस्तत्त्वमतिः प्रबोधगुरुराट् चन्द्रस्तदीये पदे, साक्षात्कल्पतरुर्जनेषु कुशलः सत्पद्म-लब्धिर्जिनात्॥६॥ चन्द्रश्चारुयशः जिनोदयगुरुः श्री जैनराजः प्रभु-स्तत्पट्टे जिनभद्रसूरिरमवच्चन्द्रश्रिया वारिमा। जातौ चाऽथ समुद्र-हंस सुगुरु: माणिक्यसूरिस्ततः, श्रीमच्छीजिनचन्द्रराट् युगवरख्यातः क्षितौ स्वैर्गुणैः // 7 // सिंहः सर्वपरीषहद्विपगणे शौर्येण सिंहोपमः, श्रीमान् श्रीजिनसिंहसूरिगणभृतत्पट्टभूषामणिः। दक्षः श्रीजिनराजसूरिगणराट् सौभाग्यभाग्यालय-श्चञ्चच्चन्द्रमरीचिमण्डलयशाध्वस्तान्तरारिव्रजः॥८॥ * प्राग्वाटान्वयकल्पपादपसमश्रीरूपजीकारित- श्रीशत्रुञ्जयमण्डपाष्टममहोद्धारप्रतिष्ठा कृता। येन स्मेरवलक्षपक्ष यशसा बोहित्थवंशार्यमा, योऽयं श्री जिनराजसूरिगणराट् जीयात् सहस्रं समा॥९॥ स्फूर्जत्तर्कवितर्कगर्वितमनोवादीन्द्रपञ्चाननः, प्रौढाष्टापदसन्निभो विजयते चिन्तामणिर्देहिनाम्। सोऽयं श्रीजिनराजसूरिगणभृद्भूतानि दतादर- स्तद्राज्ये विहिता हिताय भविनां सद्दीपिकेयं मया॥१०॥ . अथ स्वगुरु-प्रशस्तिः शिष्यः श्रीजिनराजसूरिसुगुरोः सछीलीलीलास्पदं, सद्बुद्धिर्जिनवर्द्धनो ___ गणधरस्तच्छिष्यंमुख्याग्रणीः। कौशश्चारुधियां प्रधानमुकुटः श्रीशङ्खवालान्वये, वसंवर्य्यपदावदातविदितः . श्रीकीर्त्तिरत्नाह्वयः॥ 11 // शिष्यो हर्षविशालवाचकमणि स्तत्पादसेवापरो, हर्षाद्धर्मगणिश्च वाचकवरस्तद्भक्तिलब्धोदयः। प्रोद्यच्छीधर साधुमन्दिरगुरुस्तवाच शिष्योऽभद विमलादिरङ गणिराट् भक्तः स्वकीये गुरौ॥१२॥ तस्य शिष्यौ भुवि ख्यातौ गुरुभक्तिपरायणौ। स्यातां कुशलकल्लोल-लब्धिकल्लोलनामकौ // 13 // तन्मध्ये च समग्रवाचकवरश्रीलब्धिकल्लोलकशिक्षाभृल्ललितादिकीर्त्तिगणिना शीलोपदेशसृजः। द्राक् चक्रे विवृतिः सुबोधसुगमा लाटद्रहे सद्रहे, वस्वम्भोधि रसामृतद्युतिमिते [ 1678 ] वर्षे प्रदीपोत्सवे॥ 14 // यावज्जैनमतं धरासु विदितं यावगिरं स्वर्गिणां, यावच्चन्द्ररवी सुरेन्द्रपदवीं यावत्पतिः पाथसाम्। रम्यं शास्त्रमिदं सदा सुखकरं श्रोतुश्च कर्तुः भृशं, तावन्नन्दतु भूतले विरचितं श्रीवीरसान्निध्यतः॥१५॥ ग्रन्थमानं स्फुटं पञ्च सहस्रं ग्रथितं मया। प्राज्ञैस्तथापि चिन्त्यं हि सार्द्धद्वयशताधिकम्॥१६॥ यदि युक्तमयुक्तं वा प्रोक्तमत्र प्रमादतः। कृपां कृत्वा मयि प्राज्ञैः पठनीयं विशोध्य च॥ 17 // इति श्री शीलोपदेश माला दीपिका। कृपा च स्वपरोपकृतये। [मेरे संग्रह की प्रति से] प्रशस्ति के अनुसार ललितकीर्ति की गुरु परम्परा इस प्रकार है: लेख संग्रह 165
SR No.004446
Book TitleLekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy