________________ यदत्र किंचिल्लिखितं प्रमादा-दुत्सूत्रमास्थाय बलं स्वबुद्धेः। तज्जैनभक्तैः परिशोध्य साध्य सद्धर्मलाभो ह्यनया दिशैव॥४॥ उपाध्यायैरेवं ननु विरचितं मेघविजयैस्तपागच्छे स्वच्छे रसमयमिदं वाङ्मयमिह। बहूनां लोकानामुपकृतिविधौ तत्परतरैरमुष्मान्नैपुण्यात्समवहितपुण्याद् विजयताम्॥ 5 // द्वे सहस्र पञ्चशतान्यस्य मानमनुष्ठभाम्। श्रीधर्मलाभशास्त्रस्य ज्ञातव्यं भव्यधीधनैः // 6 // सूर्याचन्द्रमसौ यावद् यावन्मेरुर्महीधरः। श्रीजैनं शास्त्रं यावत् तावद् ग्रन्थः प्रवर्तताम्॥७॥ इतिश्रीधर्मलाभशास्त्रे सामुद्रिकप्रदीपे महोपाध्यायश्रीमेघविजयगणिप्रकटिते चतुर्दशोऽधिकारः पूर्णः। पूर्णे च तस्मिन् ग्रन्थोऽपि पूर्णः॥ श्रीः॥ [अनुसंधान अंक-३०] 000 154 लेख संग्रह