________________ एकादशोधिकार-प्रशस्तिः श्रीशंखेश्वरपार्श्वस्य भास्वतः केशवार्चनात्। प्रभावाद्धर्मलाभोत्राऽसाधि साधुरसाधिकः॥ (36 ए) - द्वादशोधिकार-मङ्गलाचरणम् अथ केशवसेव्यस्य प्रभावात् पार्श्वभास्वतः। धर्मलाभः कन्यकायाः कन्यते धन्यया धिया॥ (36 बी) द्वादशोधिकार-प्रशस्तिः एवं केशवपूज्यस्य प्रभोः पार्श्वस्य तेजसा। असाधि साधिकधिया धर्मलाभोऽधुना स्त्रियाः॥ (37 ए) त्रयोदशोधिकार-मङ्गलाचरणम् श्रीकेशवस्थापितपार्श्वभर्तुः प्रभाकृतः शुद्धमहःप्रकाशात्। सत्या युवत्या अपि धर्मलाभः श्राद्ध्या प्रसाध्योऽथ गुणाभिधायाः॥ (37 ए) त्रयोदशोधिकार-प्रशस्तिः / जीयात् शंखेश्वरः पार्थो भास्वानिव सदोदयी। प्रभावाद्धर्मलाभोऽत्र द्वितीयः साधितः स्त्रियाः॥ 13 // (38 ए) चतुर्दशोधिकार-मङ्गलाचरणम् प्रणम्य शंखेश्वरपार्श्वभर्तुः मूर्तिं सदा केशवपूजनीया। स्त्रियास्तृतीयोप्यथ धर्मलाभः प्रकाश्यते सुप्रभयैव भानोः॥ 14 // (38 ए) .. चतुर्दशोधिकार-प्रशस्तिः श्रीशंखेश्वरपार्श्वभास्वददितप्रौढप्रभोल्लासतः, कामिन्याः समसाधि साधिकधिया श्रीधर्मलाभोदयः। चातुर्येण चतुर्दशोऽयमभवत् तत्राधिकारः शुभः, ग्रन्थे केशव एव तद् विजयतां मौलोऽत्र हेतुः श्रियै॥ 14 // (39 ए) / रचना-प्रशस्तिः मत्वैवं भुवि धर्मलाभवचनं धीरैः परं दुर्लभं तत्प्राप्तावपि धर्मलाभविधिना साध्यं शिवोपार्जनम्। सम्यग्दर्शनबोधसाधुचरणान्यस्यायनं संस्मृतं. सर्वज्ञैः जिनभास्करैः समुदितैः सिद्धिप्रतिष्ठाधरैः॥ 2 // जीयासुर्विजयप्रभाः सुगुरवः श्रीमत्तपागच्छपास्तत्पट्टे विजयादिरत्नगणभृत् सूर्याश्च सूर्यादिमाः। . तद्राज्ये कवयः कृपादिविजयास्तेषां सुशिष्यो व्यधात् शास्त्रं बालहिताय मेघविजयोपाध्यायसंज्ञः श्रिये॥ 3 // लेख संग्रह 153