________________ मिथ्याज्ञानतमोविनाशनकृते प्राप्ते प्रकाशे मया, वक्तव्यः शुचिनव्यभव्यसुमनोऽम्भोजन्मबोधाशया॥ सप्तमोधिकार-प्रशस्तिः श्रीशंखेश्वरपार्श्वशाश्वतरवे: श्रीकेशवार्चाभृतः। शुश्रूषोस्तव वर्णमेघविजयस्यौन्नत्यभावो भुवि॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया। तत्राभूदधिकार एष यशसां हेतुः श्रिये सप्तमः // (28 बी) अष्टमोधिकार-मङ्गलाचरणम् नेत्रानंदनकारिणा भगवता पार्श्वेन शंखेश्वरे - त्याह्वानेन कलाभरैः कुवलयोल्लासं सदा कुर्वता। त्रैलोक्ये प्रतिभासिते समुचितः सोमाधिकारोधुना, प्रारभ्यः किल सभ्यकेशवप्रियाश्रीधर्मलाभाप्तये॥ (28 बी) अष्टमोधिकार-प्रशस्तिः श्रीशंखेश्वरपार्श्वशाश्वतरवेः श्रीकेशवार्चाभृतः। शुश्रूषोस्तव भक्तमेघविजय श्रीसोमनाम्नः सदा॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया। तत्राभूदधिकार एष यशसां हेतुः श्रियेऽप्यष्टमः // (32 ए) नवमोधिकार-मङ्गलाचरणम् श्रेष्ठा ज्येष्ठामल्लधर्मानुभावो, भावायैषां भाव्यते केशवाज़ः / ' पार्थो भास्वानैव शंखेश्वराख्य-स्तस्माद्विश्वे शाश्वतोऽस्तु प्रकाशः॥ (32 ए) नवमोधिकार-प्रशस्तिः / श्रीशंखेश्वरपार्श्वशाश्वतरवेः श्रीकेशवार्चाभृतः। शुश्रूषोस्तव भक्तमेघविजय ज्येष्ठादिमल्लस्य स॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया। . तत्राभूदधिकार एष नवमो हेतुर्यशःसम्पदाम्॥ (35 बी) दशमोधिकार-मङ्गलाचरणम् अथ श्रीमूलराजस्य पार्श्वभास्वत् प्रसादतः। साध्यते धर्मलाभोऽयं केशवाभ्युदिताऽध्वना॥ (35 बी) दशमोधिकार-प्रशस्तिः प्रभास्वत्केशवार्चस्य श्रीमेघविजयद्युतेः। मूलराज धर्मलाभः प्रोक्तः श्रीपार्श्वभास्वतः॥ (36 ए) एकादशोधिकार-मङ्गलाचरणम् अथोच्यते धर्मलाभश्छत्रसिंहस्य तेजसा। श्रीपार्श्वभास्वतोऽय॑स्य केशवेनोदितश्रिया॥ (36 ए) 152 लेख संग्रह