________________ तृतीयाधिकार-प्रशस्तिः . इत्येवं पुरुषोत्तमस्य भगवत्पार्श्वस्य शंखेश्वरस्याह्वानस्य निवेशनेन विदितः श्रीकेशवस्याप्ययं॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया। तत्राभूदधिकार एष यशसां हेतुस्तृतीयः श्रिये॥१॥ (16 ए) चतुर्थाधिकार-मङ्गलाचरणम् / अथाधिकारः प्रारभ्यः श्रीपार्श्वेशप्रभावतः। श्रीमदुत्तमचन्द्रस्य वाड्मयार्चिर्बलान्मया॥१॥ चतुर्थाधिकार-प्रशस्तिः ' नाम्नेत्युत्तमचन्द्रकस्य भगवत्पार्श्वस्य शंखेश्वरस्याह्वानस्य निवेशनेन विदित श्रीकेशवस्याप्ययं॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया। तत्राभूदधिकार एष यशसां हेतुश्चतुर्थः श्रिये॥१॥(१८ बी) पञ्चमाधिकार-मंगलाचरणम् श्रीकेशवस्थापितमूर्तितेजः-प्रौढ़स्य शंखेश्वरपार्श्वभानोः। प्रभाभरान् मंत्रिणि राजमल्ले-ऽधिकाऽधिकारप्रतिपत्तिरस्तु॥१॥ पञ्चमाधिकार-प्रशस्तिः श्रीशंखेश्वरचारुरूपभगवत्पार्श्वस्य भास्वत् प्रभोः, '. शुश्रूषो भूमि राजमल्ल विलसन् नाम्नि श्रिया केशवे॥ ... सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया। तत्राभूदधिकार एष यशसां हेतुः श्रिये पंचमः॥(२१ बी) षष्ठोधिकार-मङ्गलाचरणम् / श्रीशंखेश्वरपार्श्वस्य भास्वतः तेजसांजसा। श्रीकेशवार्चितस्यौच्चैः प्रकाशः शाश्वतोऽस्तु मे॥ इह भीमभुजौजसा जगद्विजयख्यातिधरक्षमापते! प्रकटीकृतधर्मलाभधीरधिकारः प्रतिपाद्यतेऽधुना॥ षष्ठोधिकार-प्रशस्तिः श्रीशंखेश्वरचारुरूपभगवत्पाश भास्वत् प्रभौ। शुश्रूषोस्तव साधुभीमविजयख्याते श्रिया केशवे॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया। तत्राभूदधिकार एष यशसां हेतुःश्रिये षण्मितः॥ ( 25 बी) सप्तमोधिकार-मङ्गलाचरणम् श्रीशंखेश्वरपार्श्वभास्वदुदयज्योतिभैरैः श्रीमहोपाध्यायाद्यभिषिक्तमेघविजयस्यात्राधिकारस्तव। लेख संग्रह 151