________________ ति। ननु अत्र यः क्त्वास्थानीयः क्यब् उच्यते स कर्तरि कर्मणि भावे वा प्रयुज्यते, प्रोच्यताम्। अनिर्दिष्टार्थाः / प्रत्ययाः स्वार्थे भवन्ति' इति वचनात्, स्वार्थो भावः, ततोऽत्र भावे एव क्त्वाप्रत्ययः कर्तृकर्मणोरनभिधानात् तत्र न भवति। एवं चेत्तर्हि भावस्य कर्मविहीनत्वात् 'परमात्मानं' इत्येन सकर्मण पदेन सह कथंकारं योगो विधीयते, भावे नित्यं कर्मणोऽविद्यमानत्वं आकाशकुसुमवत् त्रिलोक्यां इति। नैवं- यतः सकर्मकाणां धातूनां पुरस्तात् भावविवक्षया उत्पादितः कृत्प्रत्ययः प्रत्ययस्वाभाव्यादेव कर्मत्वं न अपाकरोति। यदाहुः'सकर्मकाणामुत्पन्न' इत्यादि। तेन नमेः सकर्मकाद्धातो वेपि विहितः, क्त्वा सकर्मैव भवतीति, परमात्मानं' इत्यत्र युक्तत्वम्। एवं चेत् क्यपः कृत्प्रत्ययत्वात् कर्मणि षष्ठी युज्यताम्, तथा च सति प्रणम्य परमात्मन इति पदेन भवितव्यम्, न द्वितीयान्तेन इति / कर्तृकर्मणोः 'कृद्योगे षष्ठी' भवतीति वैयाकरणाः। नैवम्- 'कर्तृकर्मणोः' अक्तदौ कृति षष्ठी' इति सूत्रे अक्तादौ इति निषेधसामर्थ्यात् क्तादिप्रत्यययोगे न कर्मणि षष्ठी, अक्तादिरित्यत्रादिशब्दःक्तसमानप्रत्ययसमुच्चयनार्थः, तथा च सति भावेपि विहितः क्त्वाप्रत्ययस्थानीयसकर्मैव भवतीति युक्तम् परमात्मानमिति कर्मवचनमिति। __ननु अत्र क्त्वाप्रत्ययः कुत्र काले प्रयुज्येत?, उच्यते-अव्यवहित- पूर्वकालापेक्षया क्त्वाप्रत्ययः सिद्धः। यथा- प्रणम्य प्रक्रियां ऋजु कुर्वः, इति / तत्र प्रणमनानन्तरमेव प्रक्रियार्जवकरणमित्यर्थप्रादुर्भाव: स्यात्, तेन अव्यवहितपूर्वकालापेक्षिक्त्वाप्रत्ययोऽत्र। ननु चेत् यदि पूर्वकालापेक्ष एव क्त्वाप्रत्ययः प्रादुःष्यात्, तदा मुखं व्यादाय स्वपिति, अक्षिणी सम्मील्य हसतीत्यादौ पूर्वकालमन्तरेणापि क्त्वाप्रत्यय उपलभ्यते / मुखव्यादानाक्षिसम्मीलनक्रिययो: स्वापहसनक्रिययोश्चैककाले एव प्रत्यक्षेण कक्षीक्रियामाणत्वात् / नच मुखव्यादानानन्तरं स्वपनं, अक्षिसम्मीलनानन्तरं च हसनमित्यर्था-ऽऽविर्भावोऽभिष्यात् / द्वयोः क्रिययोः समानकाले एव दृश्यमानत्वेन आनन्तर्यक्रियानुपलब्धेरिति / नैवम्- इहापि पूर्वकालापेक्षाऽस्त्येव। कथं स्वापक्रियायामुखव्यादानादुत्तरकालीनत्वाद्भवति, मुखव्यादाने पूर्वकालता-प्रवृत्तिरेवं हसनक्रियाया अपि अक्षिसम्मीलनात् उत्तरकालीनत्वात् स्यात्, अक्षिसम्मलीने पूर्वकालताप्रवृत्तिरिति सिद्धोऽत्र पूर्वकालापेक्षया क्त्वाप्रत्यय- स्थानीयः क्यप् इति। इति प्रणम्यपदसमाधानम् लेशतः कृतं पं. सूरचन्द्रेण श्रीरस्तु लिखितं श्रीजावालपुरे पं. चि. भाग्यसमुद्रवाचनार्थमिति शुभं भवतु।। किं तद्वर्णचतुष्टये नवनजवर्गस्त्रिभिर्भूषणं, ( ?) आद्यैकेन महोदयेन विहगो मध्यद्वये प्राणदः। व्यस्ते गोत्रतुरङ्गचारिमखिलं प्रान्ते च सम्प्रेषणं, ये जानन्ति विचक्षणाः क्षितितले तेषामहं किङ्करः॥ [कुवलयम्] शुभंभवतु लेखकवाचकयोः [अनुसंधान अंक-३३] 000 130 लेख संग्रह