________________ . ननु भो विद्वन् / पूर्वं शास्त्रस्यादौ शास्त्रकाराः मङ्गलार्थं कञ्चिन्मङ्गलवाचकं शब्दं प्रतिजानाति, इति सर्वशिष्टाचारः। अत्र ह्येतत्क्रममुत्क्रम्य श्रीमदाचार्यधुर्यैः प्रणम्य इति पदस्य शास्त्रस्यादौ वर्तमानत्वेपि 'प्र' इत्युपसर्गः पूर्वं कथं प्रतिज्ञातः? / उपसर्गो हि न मङ्गलार्थो लोके रूढः,"उपसर्ग उपद्रवः" इति निघण्टुवचनात् / वैयाकरणेतरसूरयो हि शास्त्रादौ अमङ्गलशब्दं विहाय मङ्गलशब्दमेव सर्वे निवेशयन्ति, तच्चात्र न दृश्यते तत्र को हेतु?, प्रोच्यते / नास्य नामकोषसम्बन्धिनी उपद्रवाभिधेयोपसर्गसंज्ञा, किन्तु 'उपसर्गाः क्रियायोगे' इति पारिभाषिकी प्रस्योपसर्गसंज्ञा। एवं चेत् लौकिकी पारिभाषिकी वा प्रस्योपसर्गसंज्ञा, एवं चेत् लौकिकी पारिभाषिकी वा प्रस्योपसर्गसंज्ञा श्रुतिकटुः सम्पनीपद्यते एव। नैवं, प्रस्य महामङ्गलरूपत्वादिदं शास्त्रादौ मङ्गलमित्येव विवक्षितम् / यत:-'प्रशब्दश्चाथशब्दश्च' इति पुराणविचक्षणा आचक्षते। ननु च शास्त्रान्तरेषु'ओंकारश्चाथशब्दश्च' इति पाठो दृश्यते, ततोऽयं पाठोप्ययुक्तः, नैवं प्रशब्दशब्दनेन, साक्षात् ओंकार एवोपात्तः, यतः- ओंकारापरपर्यायो प्रणव-शब्दोस्ति, तस्य पदैकदेशे समुदायोपचारात् / यद्वा- 'अवयविनि वर्तमानाः शब्दाः अवयवेष्वपि वर्तन्ते' इति वचनात् भीमो-भीमसेन इत्यादिन्यायाद्वा प्रणवैकदेशे प्रशब्दे प्रणवे समुदायोपचारात् प्रशब्देन प्रणवग्रहणं सिद्धम्। सिद्धे च तस्मिन् ओंकारस्यैव उपादानं अङ्गीकृतं, तदङ्गीकारे च "ओंकारश्चाथ शब्दश्च" इति पाठोऽपि आदृत इति। प्रशब्दश्चाथ शब्दश्चेति पाठस्य ओंकारश्चाथेति पाठेन एकार्थीभावात् नायमयुक्तः पाठ इति। एवं चेत्तर्हि भवतु नाम प्रणवे माङ्गल्यं, प्रकृते किम्?, उच्यते-प्रस्य प्रणवशब्दस्यादौ स्थितत्वात् प्रणवकृतं माङ्गल्यं प्रशब्देपि अस्तीति प्रशब्दो माङ्गलिक इति। एवं तर्हि भवतु।। ___ शास्त्रादौ मङ्गलार्थो यः 'प्र'उपन्यासः, परं 'प्रणम्य' इति पदं समस्तं असमस्तं वा? किंप्रत्ययान्तं सिद्धयतीति प्रोच्यताम्? प्रणमनं पूर्वं प्रणम्येति प्रथमात्पुरुषेण समस्तं पदं, क्यप् प्रत्ययान्तं चेति / कथमत्र * क्यप्? अस्य तत्पुरुषेण समस्तत्वात् समासे क्यबिति क्यप्। एवं चेत् क्यपः कित्वात् लोपस्तु अनुदात्ततनां इति मलोपः क्रियताम्। मैवं वोचः-लोपस्त्विति तु ग्रहणं व्यवस्थाविभाषार्थं, तेनाऽत्र न मलोपः, पक्षे 'प्रणत्य' इत्यपि भवति / णत्वं तु प्रादेश्च तथा तौ इत्यनेन सिद्धमेव। ननु 'प्रणम्य' इत्यत्र का विभक्तिः? किं वचनं? चेति निगद्यताम्, उच्यते- तत्र विभक्तिः प्रथमा। प्रथममिति कथमत्र विभक्तिप्रतीति:?, उच्यते- प्रणम्य इति पृथक्पदत्वात् विभक्तिमन्तरेण च न पदत्वापत्तिः 'विभक्त्यन्तं पदम्' इति वचनात्।। * एवं चेत्तर्हि त्यादीनामपि विभक्तिसंज्ञा अस्त्येव, तर्हि 'त्याद्यन्तं उत स्याद्यन्तं' इति, तत्र आद्यं न सम्भवति साक्षात् एव तदन्तत्वाभावात् / स्याद्यन्तं चेत् तस्यापि प्रत्यक्षानुपलक्ष्यमाणत्वात् न सम्भवः। ___ नैवम्- "कृत्तद्धितसमासाश्च'' इति कृतां नामसंज्ञात्वात् स्यादिर्भवत्येव / एवं चेत्तत्र का विवक्षामाश्रित्य विभक्ति-उत्पत्तिर्विधीयते?, उच्यते विभक्त्यर्थप्रधाननिर्देशमाश्रित्य, स च विभक्त्यर्थः प्रातिपदिकार्थः सन्मात्रलक्षणः सम्पन्न इति / प्रातिपदिकार्थे सन्मात्रे प्रथमैव विभक्तिः, एवं चेत् प्रथमाया द्विवचन बहुवचनं वा क्रियताम्, किमेकवचनेन? सत्यं, सङ्ख्याविशेषाभावा सर्वा / किं तर्हि एकवचनमेव? तस्य उत्सर्गत्वेन विधीयमानत्वात् / तथा चोक्तम्- 'एकवचनमुत्सर्गत: करिष्यत' इति प्रथमाविभक्त्यैकवचनान्तत्वं सिद्धिमिति / ... एवं चेत्तर्हि विभक्तिः कथं न दृश्यते? इत्युच्यते - क्त्वाद्यन्तं चेत्यव्ययसंज्ञत्वात् विभक्तेर्लुक्। ननु नहि साक्षात् क्त्वा दरीदृश्यमानोऽस्ति तत्कथं, अव्ययत्वम्? सत्यं, क्त्वास्थाने जायमानः क्यबादेशः क्त्वावन्मन्तव्यः। स्थानस्थानि-नोरभेदोपचारात् स्थानिवद्भावात् इत्यर्थः। ततः क्त्वाद्यन्तं चेत्यव्ययत्वेन 'अव्ययाद् विभक्तेर्लुक्' इति लुक्। लेख संग्रह 129