________________ समवसरणमध्यासीनसन्नाष्टकर्मन्, प्रहतकुमतिमान त्वत्पदाभ्यर्चनार्थम् / जिनवर! सुरनागैरागते रागवद्भिः, शुभभुवि भुवि दृश्येते छुपाताललोकौ // 9 // (मालिनीच्छन्दः) स्वः सिन्धुपानीयसमानराज-धुष्मद्यशोमञ्जुलमण्डलाल्या। विस्तारवत्या नभसा तदात-र्देदीप्यते चन्द्र इवोष्णरश्मिः॥ 10 // (इन्द्रवज्राछन्दः) श्रीपार्श्वनाथस्स ददातु मङ्गलं, स्फूर्जद्यशोभिर्गुरुभिर्यदीयकैः। क्षीराम्बुनिध्यन्तरशुभ्रिमोपमै-र्देदीप्यते रूप्यनिभं हि कज्जलं // 11 // (इन्द्रवंशाछन्दः) इत्थं श्रीपार्श्वनाथः शमयमवितदुर्मन्मथो वल्गुमार्गे , मुक्ति श्रीपत्तनाप्तोर्भवतु भुवि विशां भावुकानां प्रदाता। स्फूर्जत्छ्रीपाठकज्ञानविमलसुगुरूपास्ति रक्तेन भक्त्या, धीमच्छ्रीवल्लभेन स्तुतकृतवचसा सत्समस्यास्तवेन // 12 // (स्रग्धराच्छन्दः) इति श्रीतिमिरीपुरीश्वरश्रीपार्श्वनाथजिनराजप्रशस्य-समस्यास्तोत्रं समाप्तम् / कृतिरियं श्रीज्ञानविमलोपाध्यायमिश्राणां चरणसरसीरुहचञ्चरीकप्रकार वाचनाचार्यश्रीवल्लभगणीनामिति / श्रीरस्तुः॥ [अनुसंधान अंक-२८] लेख संग्रह 121