SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ तेभ्यः प्रेतेभ्यः 'रुः सूर्ये रक्षणेपि च। भये शब्दे च' इति सुधाकलश (प. ३७-३८)वचनप्रामाण्यात् / रु:भयं येषां ते अतरवस्तेषु अतरुषु। अथवा तरुषु इति कोर्थः? वृक्षोपमेषु अनेकगुणगणपक्षिकुलाश्रयभूतत्वात् / अथवा तरुषु अर्थात् कल्पवृक्षेषु निजसवाहेवाकिनां मनोवांछितदानात् / तथा हे स्निग्ध! हे मित्र! तद्वद्धितकारित्वात्। कश्चित्कान्तेति काव्यस्य विचक्षणचमत्कृते। अर्थत्रयमिदं चक्रे गणि: समयसुन्दरः॥ [द्वितीयोऽर्थः संपूर्ण:] **** [अथ तृतीयोऽर्थः] अथ श्रीसूर्यदेववर्णनेन तृतीयमर्थमाह-अत्र कोपि जनो जगदुद्योतकारकं जगच्चक्षुर्भूतं परमोपकारविधायकं श्रीसूर्यं अस्तमयं दृष्ट्वा प्राह कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः, शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः। यक्षश्चक्रे जनकतनयास्त्रानपुण्योदकेषु, स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥१॥ कश्चित्कान्तेत्यादि / हे इन ! हे सूर्य! त्वं 'अस्तः क्षिप्ते पश्चिमाद्रौ' इति हैमानेकार्थ (प. १६०)वचनात्, अस्तं पश्चिमाद्रिं अस्ताचलं इति यावत्, मा अम-मा गच्छ मा अस्तमय सदा प्रकाशवान् भवेत्यर्थः। आशीर्वचनमेतत् इत्यन्वयः। किं विशिष्टं त्वं? 'हि स्फुटार्थनिश्चयहेतुषु पादपूरणविशेषयोरपि' इति अव्ययार्थवृत्तौ उक्तत्वात्। हि-स्फुटं कः-प्रकाशस्तद्योगात् कः प्रकाशवानित्यर्थः। पुनः किं विशिष्टं त्वं? चिनोति-अभिमतमर्थं निज सेवाभिधायिनामिति चित् / अथवा चित् अवधारणे / हे कान्ताविरह! कान्तःमनोहरो विशिष्टफलदानात् / उच्चो अविर्मेषो मेषराशिर्यस्य स कान्ताविः / मेषराशिस्थस्य सूर्यस्य उच्चत्वात् / यदुक्तं-रवेर्मेषतुले प्रोक्ते' इत्यादि। तथा लहः लमम्बरे' इति विश्वशम्भु (प..१०४)वचनात् / ले-आकाशे। हशब्दो हास्यरसे चतुर्मखे चैव राजहंसे च' इति श्री कालिदासवचनात् / हः-राजहंसो लह:-आकाशसरोवरे राजहंसशोभां विभ्राण इत्यर्थः। ततः कान्ताविश्चासौ लहश्च कान्ताविलहः। रलयोरैक्यं चित्रादित्वान्न दोषाय। अथवा कान्तेषु-उत्तमेषु भक्तेषु वा अविरहः-विरहाभावो यस्य स कान्ताविरहः, तेषां प्रत्यक्षत्वात् / तत्सम्बोधनं हे कान्ताविरह ! पुनः हे गुरुण! 'णः प्रकटे निष्कले च प्रस्तुते ज्ञानबन्धयोः' इति सुधाकलश (प. 22) वचनात् / गुरोः-बृहस्पतेः सकाशात् णः-ज्ञानं यस्य स गुरुणः देवाचार्यत्वेन बृहस्पतेर्देवानां गुरुत्वात् / अथवा गुरोः-बृहस्पतेर्णो-बन्धो यत्र स गुरुणः। रविमण्डले सर्वेषां ग्रहाणां अस्तत्वात् / तथा हे अस्वाधिकार! स्वानि मित्राणि कमलानि अब्जबान्धवत्वाद्रवे: तद्विरुद्धानि अस्वानि अर्थात् कुमुदानि तेषां 'आधिर्मनो? व्यसनेऽधिष्ठाने बन्धकोशयोः' इति हैमानेकार्थ (प. २४२)वचनात् आधि-बन्धं करोति इति अस्वाधिकारः। अथवा शसयोरैक्यात् अश्वेषु सप्तसंख्यतुरङ्गमेषु आधिः-अधिष्ठानं करोतीति अस्वाधिकारः अथवा अश्वेषु अधिकारो वाहनादि रूपो यस्य सः अस्वाधिकारः तत्सम्बोधनं हे अस्वाधिकार! तथा हे शापे प्रमत्त ! शापादानविषये अलस! न तु दुष्टदेवादिवत् शापदानादितत्परः। हे अन! 'न पुनः बन्धबुद्धयोः' (अमरचन्द्रीय एकाक्षरनाममाला प. 12) इति वचनात् बन्धनरहित! प्रकट इति यावत्, हे गमितम! 'गमोऽध्वद्यूतभेदयोः' 100 लेख संग्रह
SR No.004446
Book TitleLekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy