________________ इति हैमानेकार्थ (३२४)वचनात् / गमः-मार्गो यस्यास्तीति गमि मार्गप्राप्तं गतमित्यर्थः / लोके हि मार्गप्राप्तस्य गतमिति व्यवहतत्वात् / ततो गमि-गतं तमं-तिमिरं यस्मादसौ गमितमः। अथवा गमनं गमः पलायनं तदस्यास्तीति गमि नाशवत्तमं-तिमिरं यस्मादसौ गमितमस्तत्सम्बोधने गमितमः!। तमशब्दोऽकारान्तोप्यस्ति। हे वर्षभोग्य! वर्षाणि क्षेत्राणि भरतादिरूपाणि तेषां तेषु वा भोगः परिभोगाचाररूपो वर्षभोगः तत्र साधुः तत्र साधौ ये' इति ये वर्षभोग्यस्तत्सम्बोधने हे वर्षभोग्य!। पुनः किं. भर्तुः 'भं धिण्ये मेषादौ इत्यनेकार्थवचनात् (महीपसचिवकृत एकाक्षरसंज्ञः काण्डः 33) / भैर्मेषादिराशीभिराश्विन्या-दिनक्षत्रैर्वा क्रतवो वसन्तादिसंज्ञिका यस्मात्स भर्तुः। पुनः किं भूतो यक्ष:? 'इर्भुवि श्रिया' इति तिलकानेकार्थ (प. ७)वचनात् / ई-भुवं अक्ष्णोति प्रकाशकरणेन व्याप्रोतीति यक्षः। हे चक्रेजन! चक्रा:-चक्रवाकपक्षिणः तेषां तेषु वा ई:-श्री: तस्याः जनः-जननं यस्मात्स चक्रेजनः, चक्रबान्धववत् सूर्यस्य / सति हि सूर्ये चक्रवाकपक्षिणां परमानन्दः समुत्पद्यते। तत्सम्बोधने चक्रेजन! पुनः हे कतनय! क:-यमस्तनयो यस्य स कतनयस्तत्सम्बोधने हे कतनय!। हे अस्नान! न विद्यते स्नानं तैलककोटिकादिरूपं यस्मिन् सः अस्नानस्तत्सम्बोधने हे अस्नान!। रविवारे हि स्नानं तापकारि स्यात् / यदुक्तं-'आदित्यादिषु वारेषु, तापः कान्तिम॒तिर्द्धनं / दारिद्र्यं दुर्भगत्वं च कामाप्तिः स्नानतः क्रमात् / ' किं विधः? हे उदकेषु पुण्य! उत्-ऊर्ध्वमकन्ति-गच्छन्ति चारेण चरन्ती ति उदकाः-ग्रहाः तेषु 'पुण्यं तु सुन्दरे सुकृते पावने धर्मे' इति हैमानेकार्थ (प. 375) वचनात्, पुण्यः - सुन्दरस्तेषु मुख्येत्यर्थः। पुनः हे स्निग्धच्छाय! स्निग्धा-स्नेहवती छाया-निजभार्या यस्य स तत्सम्बोधने हे स्निग्धच्छाय! पुनः किं भूतेषु उदकेषु? अतरुषु अनानां-प्राणिनां रु:-रक्षणं येभ्यस्ते उदकस्तेषु उदकेषु / हे वसतिल! वसति-रात्रिं लुनातीति वसतिल!। किं भूतेषु उदकेषु? गिर्याश्रमेषु गिरिः-पर्वतोऽर्थान्मेरुः तस्मादा-सामस्त्येन सर्वतः श्रायंतीति गिर्याश्रमेषु।। [तृतीयोऽर्थः संपूर्णः **** कश्चित्कान्तेति काव्यस्य विचक्षणचमत्कृते। अर्थत्रयमिदं चक्रे, गणिः समयसुन्दरः॥ 1 // श्री॥ [अनुसंधान अंक-३२] लेख संग्रह 101