________________ जलं, तद्यो- ज्यादाधाराधेययोरभेदोपचारात् प्राणयोगात्प्राणः प्राणिन इतिवत्, समुद्रस्तस्यतनयः-पुत्रः कतनयश्चन्द्रः, ततः जिनश्चासौ कतनयश्च जिनकतनयः अथवा जिनपूर्वकः कतनयो जिनकतनयः जिनचन्द्रः तस्य सम्बोधनं हे जिनचन्द्र! श्रीमत्खरतरगच्छाधीश्वर! वसतिः रात्रिस्तद्वद्रामः श्यामो गिरिर्वसति रीमगिरिरञ्जनगिरिस्तस्मै आ-ईषत् श्रमो गमनाय खेदो येषां ते वसतिरामगिर्या श्रमाः / जङ्घाचारणविद्याचारणलब्धिवन्तः साधवः तेषु इनः-सूर्य इवाचारः तेषु मुख्यो भवेत्यर्थः। किं विशिष्टं त्वं? चित्-अवधारणे कः। क:-सुखकारी काकुर्ध्वनिविशेषः' इत्यादि वाग्भटालङ्कार व्याख्यानात् सुखकारी। हे कान्ताविरहगुरुण! कोऽर्थः? 'कैं गै रै इति शब्दे' इति धातुपाठवचनात्। कायति-शब्दंकरोति इति अर्थात् कं-शास्त्रं वाच्यवाचकभावसम्बन्धेनवाचकत्वात्तस्य / ततः कस्य-शास्त्रस्य अन्ते-पर्यन्ते अटतिगच्छतीति कान्ताः एवंविधो विरह इति शब्दो यस्य स कान्ताविरहः, श्रीहरिभद्रसूरिर्विरहाङ्कत्वात्तस्य / ततः स चासौ गुरुश्च कान्ताविरहगुरुः तद्वत् ‘णः प्रकटे निश्चले प्रस्तुते ज्ञानबन्धयोः' इति सुधाकलश (प. 22) वचनात् / णः-ज्ञानं यस्य स कान्ताविरहगुरुणः सकलशास्त्रप्रवीणत्वात् / अथवा तद्वत् गुरुः-गरिष्टो णः-ज्ञानं यस्य स कान्ताविरहगुरुणस्तत्सम्बोधनं हे कान्ताविरहगुरुण! पुनः हे अस्वाधिकारप्रमत्तश! स्वं- द्रव्यं परिग्रहं इति यावत् तदभावोऽस्वं परिग्रहाभावः, स अधीयते यस्मिन्निति अस्वाधिः त्यक्तपरिग्रहत्वेन निर्ग्रन्थत्वात् / साभिप्रायं चैतत् विशेषणं परिग्रहत्यजनेन उद्धृतक्रियत्वात् / तथा रलयोरैक्यात् कलानां द्विसप्तति संख्यानां पुरुषसम्बन्धिनीनां चतुःषष्टि संख्याकानां महिलासम्बन्धिनीनां वा समाहारः कालं, तत्प्राति-पूरयतीति कालप्र:-धर्मः। यतो हि सर्वा अपि कला धर्मादेव प्राप्यन्ते। अथवा कस्य-सुखस्य आरं-प्राप्तिं प्रातीति कालप्रः, तं मनातीति कालप्रमथ्, पापं तदेव 'तकारः कथितश्चौरे' इति वररुचि (प. २३)वचनात् तः: तस्करस्तत्र 'शः सूर्ये शोभने शीते' (विश्वशम्भु. प. 108) इत्युक्तत्वात् श इव-सूर्य इव यः स कालप्रमत्तशः। ततः अस्वाधिश्चासौ कालप्रमत्तशश्च अस्वाधिकालप्रमत्त शस्तत्सम्बोधनं हे अस्वाधिकालप्रमत्तश! तथा हे अये! अपगतः इ:-कामो यस्मात् सो अयिस्तत्सम्बोधने हे अये! अदेतः स्यमोटुंगिति सिलुक्। हे न अस्तंगमितमहिम! अस्तं गमिता महिमा-महत्त्वं यस्य सः अस्तंगमितमहिमः एवंविधो न सर्वदैव जाग्रन्महिमत्वात् / अथवा अस्तंगमितो 'मो मन्त्रे मन्दिरे' (विश्वशम्भु. प.९४)इत्युक्तत्वात्, मः-मन्त्रं सूर्यादिमन्त्रो यत्र यस्य वा स अस्तंगमितमहिमः। अथवा अस्तंगमिता 'मा वंतः स्त्री रमाक्र्योः ' (विश्वशम्भु. प. 95) इतिवचनात् / मयां-पृथिव्यां मा रया-शोभा अर्चा पूजा यस्य सः अस्तंगमितमहिमः / एवंविधो न / तथा हे अवर्षभोग्य! अवनं अव:-षड् जीवनिकायरक्षणं तं ऋषन्ति-जानन्तीति अवर्षा:-साधवः तेषां 'भोगस्तु राज्ये वेश्याभृतौ सुखे धनेऽहिकायफणयोः पालनाभ्यवहारयोः' इति हैमानेकार्थ (प. ४१-४२)वचनात्, भोगः-पालनं सारणावारणादिकं तत्र साधुः। तत्र साधौ इति ये। अवर्षभोग्यः तस्य सम्बोधने हे अवर्षभोग्य! किं विशिष्टं त्वं? भर्तुः छाया-तीर्थकर प्रतिबिम्बं 'तित्थयरसमो सूरी' इत्याद्युक्तत्वात् / पुनः किं विशिष्टं त्वं? यक्षः इ:-लक्ष्मीस्तया युक्तानि अक्षाणि-इन्द्रियाणि यस्य सः। 'इवर्णादेरस्वे स्वरे यवरलं' इति यत्वे पक्षः रम्येन्द्रियः। पुनः हे चक्र ! 'चः पुंसि चेतने चन्द्रे चौरेऽहौ चारुदर्शने' इति श्रीहैमानेकार्थत्वात् (?विश्वशम्भु. प. 31) / चेन-चारुदर्शनेन क्रामतीति चक्रस्तत्सम्बोधने हे चक्र ! अथवा चक्रचिह्नोपेतत्वात् चक्रः तत्सम्बोधने हे चक्र!। तथा हे अस्नान - हे स्नानवर्जित! किंविधेषु साधुषु? पुण्योदकेषु पुण्याय तीर्थकरचैत्यवन्दनादिरूपाय उत्-उर्ध्वं अकंते-गच्छन्ति इति पुण्योदकास्तेषु पुण्योदकेषु / पुनः किं विशिष्टेषु साधुषु? अतरुषु तः प्रैते नि:फले शान्ते' इति विश्वशम्भु (विश्वशम्भु. प. ६०)वचनप्रामाण्यात् / न विद्यते लेख संग्रह 99