________________ राजवंशादजायथा। द्विषद्भ्यस्त्रस्यसि कथं वृकयूथादजायथा / 1 / ' इति / किं विधेन कुगुरुणा? शापा पूर्ववत्। किंविधं मां? इना-कामेन अस्तं-क्षिप्तं / हे अ! 'अः स्यादर्हति सिद्धे च' इति वचनात् / हे अर्हत्! / पुनः हे ऊग्य! 'ऊः पालने रक्षणे च' इति अनेकार्थतिलक. (प. ८-९)वचनात् / ऊ:-रक्षणं तदुपलक्षितो 'गस्तु गातरि गन्धर्वे शब्दसङ्गीतयोरपि' इति विश्वशम्भु.(प.२५)वचनात् / गः शब्दः ऊगो दयोपदेशस्तत्र साधुः, तत्र साधौ इति ये ऊग्यस्तत्सम्बोधनं हे ऊग्य! हे भर्तुः! इनः-स्वामिनः स्वामिन् / किंविधस्त्वं? यक्षः ईलक्ष्मी अक्ष्णोति-व्याप्नोतीति यक्षः। पुनः हे चक्रेजनकतनय! चक्रेण-चक्ररत्नेन ईं-शोभां जनयतीति चक्रे जनकोर्थाद्भरतनामाचक्रवर्ती स तनयः-पुत्रो यस्य स चक्रेजनकतनयः तत्सम्बोधनं हे चक्रेजनकतनय!। हे अस्नानपुण्य! अस्नाने स्नानाभावेन / 'पुण्यं तु सुन्दरे सुकृते पावने धर्मे।' इति हैमानेकार्थ(प.३७५)वचनात् / पुण्यः-सुन्दरः अस्त्रानपुण्यः। 'अनध्ययन विद्वांसो, निर्द्रव्य परमेश्वराः। अनलङ्कारसुभगाः, पान्तु युष्मान् जिनेश्वराः। 1 / इत्युक्तत्वात् / तत्सम्बोधने हे अस्नानपुण्य!। हे स्निग्धच्छाय! स्निग्धा असैक्षा कोमला इति यावत्, 'छाया पंक्तौ प्रतिमायामर्कयोषित्यनातपे। उत्कोचे पालने कान्तौ शोभायां च तमस्यपि' इति हैमानेकार्थ (प. 363) वचनात् / छाया प्रतिमा कान्ति र्वा यस्य स स्निग्धच्छायः, तस्संबुद्धौ हे स्निग्धच्छाय!। किंविधेषु . उदकेषु? अतरुषु अतन्ति-सततं गच्छन्ति, अचि, अता:-प्राणिनस्तेषां। 'रु शब्दे रक्षणेपि च। भये च' इतिवचनात् सौधाकलशात् (प.३७) रु:-र्भयेभ्यस्तानि तेषु अतरुषु। किंविशिष्टं मां? असतिं 'पूजायां तिः' इति विश्वशम्भु (प.६१) वचनात् / ति:-पूजा तया सह वर्तते यः स सतिः, न सतिरसतिस्तं पूजादिरहितं दरिद्रं-वराकमित्यर्थः। अत्र 'इवर्णादेरस्वे स्वरेयवरलं' इति मतान्तरमाश्रित्य पञ्चमीव्याख्याने अतरुषु अग्रे असतिं इत्यत्र उकारात्परे वकारे कृते लोकादिति च कृते अतरुषुवसतिं इति रूपसिद्धिः। हे गिरिराम! वाण्यां मनोहर! किं भूतेषु उदकेषु? आश्रमेषु आ-सामस्त्येन श्रमः खेदो येभ्यस्तानि तेषु। नन्वत्र चतुस्त्रिंशदतिशयसंग्राहकातिशयचतुष्टयमध्ये कः केन 'पदेनोच्यते सूच्यते वा इत्यभिधीयते चित्कान्तेति पदेन ज्ञानातिशयः। 1 / स चापायापगमातिशयमन्तरेण न संभवति अतोऽनेनापायापगमातिशयोप्याक्षिप्तः / 2 / तथा ऊग्येति गिरिरामेति वा पदेन वचनातिशयः।३। भर्तु इनेति पदेन पूजातिशयः / 4 / इति चतुष्टयं ज्ञेयम्। श्रीऋषभदेववर्णनेन प्रथमोऽर्थः सम्पूर्णः॥१॥ कश्चित्कान्तेतिकाव्यस्य, विचक्षणचमत्कृते। अर्थत्रयमिदं चक्रे, गणिः समयसुन्दरः॥१॥ // इति प्रथमोऽर्थः॥ . **** अथ श्रीखरतरस्वच्छगच्छनभोङ्गणदिनकराणां श्रीजिनचन्द्रसूरि-सूरीश्वराणां वर्णनेन प्रकारान्तरेण ___ द्वितीयमर्थमाहकश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः, शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः॥ यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु। स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥१॥ कश्चित्कान्तेत्यादि / हे इजनकतनय! त्वं वसति रामगिर्याश्रमेषु इन इति सम्बन्धः। कोर्थ:?। इ: इकारस्तेनोपलक्षितो जनः जिनः। तथा 'कं शिरो जलमाख्यातं' इति वररुचि (प.७) वचनप्रामाण्यात् / कं 98 लेख संग्रह