SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रस्तुत कृति में कविवर समयसुन्दर ने टीकाकारों द्वारा सम्मत अर्थ का परिहार करके मेघदूत के प्रथम पद्य की व्याख्या में व्याकरण और अनेकार्थी कोषों की सहायता से अभिनव तीन अर्थ किये हैं जो भगवान् ऋषभदेव, युगप्रधान जिनचन्द्रसूरि और सूर्य को उद्देश्य कर लिखे गये हैं। ___ सन् 1954 में श्री अगरचन्दजी नाहटा ने इस कृति की पाण्डुलिपि मुझे भेजी थी। उसी को आधार मानकर संशोधित कर प्रकाशित कर रहा हूँ। इस कृति की मूल प्रति किस भण्डार में है? यह मेरे लिए लिखना सम्भव नहीं है, सम्भव है बीकानेर के बृहद् ज्ञान भण्डार की ही हो! विद्वद्जनों के चित्ताह्लाद के लिए चमत्कृति प्रधान यह कृति प्रस्तुत है। * * * कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः, शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः। यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु, स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥१॥ श्रीकालिदासकृ तमेघदूतकाव्यप्रथमवृत्तस्य चतुर नर निकर-चित्तचमत्कार कृ ते निजबुद्धिवृद्धिनिमित्तञ्च मूलार्थमपहाय व्याख्या क्रियते / तत्र प्रथमं श्रीऋषभदेववर्णनमाह कश्चित्कान्ताविरहेत्यादि / हे ऋषभ!-हे श्रीआदिदेव! त्वं 'अमात्वाम' इति सूत्रेण अस्मच्छब्दस्य द्वितीयैकवचने मा इति मां मल्लक्षणं स्तुतिकारकं जनं अव-रक्ष इति संटङ्कः। किंविधस्त्वं? कः 'को ब्रह्मात्म- प्रकाशार्ककेकिवायुयमाग्निषु' इत्यनेकार्थवाक्यप्रामाण्यात् [ विश्वशम्भु. पद्य 21] क- ब्रह्मा युगादिस्थितिहेतुत्वात् / अथवा पंक्तिरथ- न्यायेन ब्रह्मनाभिभूरित्यर्थः / हे चित्कान्त ! चिद्-ज्ञानं अर्थात्केवलज्ञानं तेन कान्तः मनोहरः चित्कान्तस्तत्संबुद्धौ हे चित्कान्त!, अतएव हे अविर! 'अवि शब्दो रवौ मेषे पर्वते पि निगद्यते।' इत्यनेकार्यध्वनिञ्जरीवचनात् अवि:- सूर्यस्तद्वद्राजते यः स अविरः। अविः-पर्वतोऽर्थान्मेरुस्तद्वत् स्वर्णवर्णत्वान्निष्प्रकम्पत्वादुच्चस्तरदेहत्वाद्वा राजते यः सोप्यविरः तत्संबोधनं हेऽविर!। पुनः किंविधं मां? हि यस्मात् हगुरुणा उदकेषु गमितं / कोऽर्थ:? 'हं हर्षे चैव हिंसायां' इति विश्वशम्भु. (प. 115) वचनात् / हं-हिंसा तदुपदेष्टा तदुपलाक्षितो वा गुरुः हगुरुः, अथवा हः- क्रोधस्तेनोपलक्षितो मध्यपदलोपिसमासे गुरुर्हगुरुः। अत्र हः-क्रोधवाची। यथाह वररुचिः 'ह क्रोधवाचीति' (प. 44) क्रोधश्चात्रोपलक्षणं / तेन चत्वारोऽपि कषाया गहीतव्याः। ततस्तेन हगरुणा। उदकेष इति. उत्प्रबलानि-उत्कटानि ।'अकंदु:खाघयोः' इति श्रीहैमानेकार्थ(२-१)वचनात् / अकानि-दुःखानि पापानि वा उदकानि नानाविधत्वात्तेषां बहुत्वं तेषु गमितं-प्रापितमित्यर्थः। कुगुरुर्हि हिंसोपदेशदानादिना प्राणिनो दुःखेषु पातयतीति। पुनः हे स्वाधिकारप्र! स्वस्य-आत्मनोऽधिकारः स्वाधिकारस्तीर्थकरपदरूपः, तं प्राति-पूरयति इति स्वाधिकारप्रः, निजभक्तिमतां संतां स्वतुल्यकारकत्वात् तत्संबोधने हे स्वाधिकारप्र! किंविधेन कुगुरुणा? मत्तशापा मत्तःदृप्तः ततः शापं-आक्रोशं आचष्टे इति, शापयतीति णिजि तल्लुकि, तल्लुकि च शाप, ततः मत्ताश्चासौ शाप् च मत्तशाप् तेन मत्तशापा। अथवा अस्वाधिकालप्रं अत्त शापा इति पदस्त्रयविश्लेषः कर्त्तव्यः, तदा अयमर्थः। किं विधं मां? अस्वाधिकालप्रं न स्वः अस्वः शत्रुभूत आधिर्मानसीव्यथा अस्वाधिस्तेन काल:-मरणं अस्वाधिकालोऽसमाधिमरणं बालमरण मिति यावत् तं प्रैति प्रकर्षेण पाति-प्राप्नोति, डे प्रत्यये अस्वाधिकालप्रस्तं / हे अत्त! हे मात:! तद्वद्वच्छलत्वात् / अत्र श्लेषत्वाद्विसर्गनाशो न दोषाय। यदुक्तं रुद्रदालङ्कारटीकायां नेमिसाधुना 'विसर्जनीयाभावाभावयोर्न विशेषो, यथा - 'द्विषतां मूलमुच्छेत्तुं लेख संग्रह
SR No.004446
Book TitleLekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy