________________ त्वत्कीर्तिप्रसराता धवलिते विश्वेऽखिलेऽपि प्रभो, सावादिह संप्रमग्नवपुषः कर्पूरकुन्दादयः। लक्ष्यन्ते कविभिर्न चेति मिलिता दीपेऽन्यदीपप्रभाऽभिन्नत्वेन न लक्ष्यते खलु यथा कोऽन्यो वृथा विस्तरः॥ 115 // नेदं व्योमसरोवरं सुरपतेर्नैतानि भानि ध्रुवं, चञ्चत्प्रोज्वलमौक्तिकानि विलसन्नायं विधुर्दश्यते। श्रीमन्त्रीश्वरकर्मचन्द्रसुयशोहंसोऽयमित्युज्वल स्तारामौक्तिकमालिकां कवलयन्नेवं बुधैर्लक्ष्यते॥ 116 // * इति सुललितभावं शास्त्रमेतत्स्वकण्ठे, प्रणयति' निपुणो यः सन्ततं सत्सभासु। अनुभवति स शोभामुल्लसन्तीमनन्तां, न भवति परभावव्यग्रचेताः कदापि॥११७॥ श्रीदेवतिलकसूरिर्जयति यश:पूरपूरितदिगन्तः। नरनरपतिमुनिमधुकरचुम्बितचरणारविन्दयुगः // 118 // श्रीनर्मदाचार्यगुरोः प्रसादात्, श्रीपद्मराजस्य पदौ प्रणम्य। श्रीकर्मचन्द्राययाञ्चयेदं. श्रीहेमरत्नेन कतं च शास्त्रम॥ 119 // सद्वाक् शुभार्थः सुगुणः सुवृत्तो-ऽलङ्कारकान्तः शुभभावशाली। परोपकारप्रवणः स चाऽयं, ग्रन्थश्चिरं जयति सज्जनवज्जगत्याम् // 120 // मुष्णाति चेतांसि स भूपतीनां, पुष्णाति चातुर्यमपि स्वकीयम्। मनाति मानं ननु दर्जनानां, यः कण्ठपीठस्थमिदं करोति // 121 // इति श्रीभावप्रदीपाभिधं शास्त्रं समाप्त। श्रीरस्तु / शुभम्भवतु / श्रीः / विक्रमतो वसुवह्निक्षितिपतिवर्षे (1638) तथाऽऽश्विने मासि। विजयदशम्यामयमिति विनिर्मितो हेमरत्नेन // 1 // [ श्रीज्ञानतिलकसूरिर्जयति यशोराशिभासितदिगन्तः। नरनरपतिमुनिमुनिवरपूजितपादारविन्दयुगः॥ 1 // तत्पट्टे हेमरत्नाह्वसूरिर्जयतु शास्त्रकृत्। विनिर्ध्वंसितपापौघः प्रसन्नाननपङ्कजः॥ 2 // ] [स्वाहा-जोधपुर] [अनुसंधान अंक-१९] 1. ब. निर्माति। 2. ब. प्रतौ - ग्रन्थश्चिरं तिष्ठतु सज्जनोपि, इति पाठः। 3-4-5. ब. नास्ति। ६.ब. प्रतौ 'विजयदशम्यामेतद् विनिर्मितं हेमरत्नेन' इति पाठः। 7.[ ] कोष्ठकान्तर्गतो द्वावपि श्लोको हेमरत्नस्वलिखितादर्श अ. संज्ञकपुस्तके न स्तः। लेख संग्रह 89