________________ खण्ड-१ : श्लोक-३४ षष्ठाष्टमदशमानि. वर्षासु अष्टमदशमद्वादशमानि, पारणके चाऽऽचाम्लम्, पञ्चानां भिक्षाणां यथा द्वयोरभिग्रहः, तत्र प्रथमं चत्वारो यथोक्तं तपः कुर्वन्ति, चत्वारोऽनुपहारिकत्वमेकश्च कल्पस्थितत्वम् / एते च पञ्चाऽपि प्रतिदिनं षण्मासान् यावत् आचाम्लभोजिनः, षण्मासानन्तरं व्यूढतपसो [ऽनुपारिहारिकत्वम्,] अनुपारिहारिकाश्च पारिहारिकत्वम्, कल्पस्थस्तथैवास्ते, यावद् द्वितीयषण्मासस्ततो द्वितीयषण्मासानन्तरं कल्पस्थः तपः करोति, तेषां व्यूढतपसामष्टानां मध्यादेकः कल्पस्थो भवति, सप्ताऽनुपारिहारिका भवन्ति, अष्टावपि षण्मासं यावत् प्रतिदिनमाचाम्लभोजिनः, अष्टादशभिर्मासैः पूर्णकल्पो भवति, कल्पसमाप्तौ पुनस्तमेव वा जिनकल्पं वा प्रतिपद्यन्ते, गच्छं वा समायान्ति, प्रतिपत्तिश्च जिनसमीपे सेवकपार्श्वे वा - किञ्च - "सेसा उ निययभत्ता पायं भत्तं च ताणं आयामं / होइ नंवण्हं वि नियमा न कप्पए सेसयं सव्वं" / / [वि. आ. भा. 1274] एते च सहस्रारान्तमेव यान्ति / / 33 / / तथा खीरासव त्ति चीर्णग्रन्थिपर्णकादिविशेषस्य चक्रवर्तिसम्बन्धिनो गोलक्षस्या-र्धार्धक्रमेण पीतगोक्षीरस्य पर्यन्ते, यावदेकस्याः गोः सम्बन्धि यत् क्षीरं तदिह गृह्यते, तदिव यस्य वचनं नवरसमाधुर्यमाश्रवति मुञ्चतीति, स क्षीराश्रवः, तथा च आवश्यकचूर्णिः "खीरासवो नाम जहा चक्कवट्टिस्स लक्खो गावीणं. . ताणं तं खीरं अद्धद्धस्स दिजइ तथा चाउरकं एवं खीरासवो भवइ / महुयासव त्ति मधुशर्करादि मधुरद्रव्यम्, तद् रसतुल्यं यस्य वचनं स मध्वाश्रवः, उपलक्षणत्वात् सपिराश्रवश्च, उक्तञ्च - "खीर-महु-सप्पिसाओवमाण वयणा तयासवा हुंति" / [वि. आ. भा. 799 पूर्वार्धः] संभिन्नसोय त्ति ये सर्वैः शरीरावयवैः श्रृण्वन्ति जानन्ति च, भिन्नान् वा चक्रवर्तिस्कन्धावारबहलकोलाहलजशब्दसन्दोहान् अयमेतस्याऽयमेतस्य इत्यादिव्यक्तया पृथक् पृथक् व्यवस्थापयन्ति इति सम्भिन्नश्रोतसः / उक्तञ्च "जो सुणइ सव्वओ, मुणइ सव्वविसए य सव्वसोएहिं / सुणइ बहुए व सद्दे, भिन्ने संभिन्नसोए सो" / / [वि. आ. भा. 783] 1. सहक्षारान्त मेव पर्यन्ते -ल, ड३, 2. पर्णकादिविशेषस्य-डर, ड३, 3. वचनरसमाधुर्य-डर, ड३, वचनं रसमाधुर्यम्-ड, ल, 4: भिन्ना-ड, ल, डर, ड३, 5. व्यक्ता-ड, ल, ड२, 7-8-परि-२ /