________________ 34 चतुःशरणप्रकीर्णकम् : श्लोक-३४ "धीबलिया तवसूरा निती गच्छाउ ते पुरिससीहा / बलवीरियसंघयणा उवसग्गसहा अभीरू य" / / [ ] तेषामयं विधिः - प्रतिपन्नजिनकल्पो यत्र ग्रामे मासकल्पं चातुर्मासकं वा करिष्यति, तत्र षड्भागान् कल्पयति, ततश्च यत्र भागे एकस्मिन् दिने गोचरचर्यायां हिण्डति, तत्र सप्तमदिवसे पर्यटति, एषणादिविषयं मुक्त्वा न केनाऽपि सार्धं जल्पति, एकस्यां वसतौ यद्यपि उत्कृष्टतः सप्त जिनकल्पिका वसन्ति, तथापि परस्परं न भाषन्ते / “अममत्त अपरिकम्मा नियमा जिणकप्पियाण वसहिओ / ___ एमेव या वराणं मूत्तूण पमजणं इक्क" / / [वि.आ.भा. 7 वृ.] . . यापविशति तदा नियमादुत्कट एव, न तु निषद्यायाम, औपरिग्रहिकोपकरणस्यैवाभावात्, प्रतिपद्यमानकः सामायिकच्छेदोपस्थापनयोः, पूर्वप्रतिपन्नः सूक्ष्मसम्पराययथाख्यातचारित्रयोरुपशमश्रेण्यामवाप्यते / प्रतिपद्यमानानामुत्कृष्टतः शतपृथक्त्वम्, पूर्वप्रतिपन्नानां सहस्रपृथक्त्वं जिनानाम् / जिनकल्पिकाः प्रायोऽपवादं नासेवते, जङ्घाबलक्षीणस्त्वविहरमाणोऽप्याराधक एव, आवश्यकीनैषेधिकी-मिथ्यादुष्कृत-गृहिविषय-पृच्छोपसम्पल्लक्षणाः पञ्च एव - [सामाचार्यः] [अन्ये त्वाहुः तिस्र एव] आरामादिनिवासिन ओघतः पृच्छादीनामप्यभावात्, लोचं चाऽसौ नित्यमेव करोति, विहारो भिक्षा च तृतीयपौरुष्यामेव / अहालंदिय त्ति यथालन्दिकाः, तेषां स्वरुपमिदम्-उदकार्द्रः करो. यावता कालेन शुष्यति, तत आरभ्योत्कृष्टतः पञ्चरात्रिन्दिवलक्षणस्य उत्कृष्टलन्दस्याऽनतिक्रमेण चरन्तीलि यथालन्दिकाः, पञ्चको गणोऽमुं कल्पं प्रतिपद्यते, ग्रामं च गृहपतिरूपाभिः षड्भिर्वीथीभिर्जिनकल्पिकवत् परिकल्पयन्ति, किन्त्वेकैकस्यां वीथ्यां पञ्च पञ्च दिनानि पर्यटन्ति इत्युत्कृष्टलन्दचारिणो यथालन्दिका उच्यन्ते, एते च प्रतिपद्यमानका जघन्यतः पञ्चदश भवन्त्युत्कृष्टतः सहस्रपृथक्त्वम्, पूर्वप्रतिपन्नास्तु जघन्यत उत्कृष्टतश्च कोटिपृथक्त्वं भवति / तथा परिहारविसुद्धिसाहु य त्ति, परिहारविशुद्धिकाश्च ते साधवश्च परिहारविशुद्धिकसाधवः, ते च द्विधा निर्विशमानका निर्विष्टकायिकाश्च, तत्र यथोक्ततपस आसेवकत्वात् निर्विशमानका उच्यन्ते, अनुपरिहारिका विहितवक्ष्यमाणतपसो निर्विष्टकायिका इति, तत्र नवानामयं कल्पो भवति, ग्रीष्मशिशिरवर्षासु पृथक् पृथक् जघन्य-मध्यमोत्कृष्टभेदं तपः कुर्वन्ति, तत्र ग्रीष्मे चतुर्थषष्ठाष्टमानि शिशिरे 1. अपमत्त-डर, 2. जिनकल्पिकानामिति-टि०, 3. अपवादमासेवते-ड, 4. नामप्यन्तर्भावात्-ड, ड३, .5. दिवस-ड३, 6. लन्दभारिणो, 7. विसुद्ध-डर, ड३, 8. विशुद्धसाधवः-डर /