________________ खण्ड-१ : श्लोक-३४ 33 खीरासव महुआसव संभिन्नस्सोय कुट्ठबुद्धी य / चारण-वेउव्वि-पयाणुसारिणो साहुणो सरणं / / 34 / / क्षीराश्रवमध्वाश्रवसम्मिन्नश्रोतसः कोष्ठबुद्धयश्च [बुद्धिश्च] / चारणवैक्रियपदानुसारिणः साधवः शरणम् / / 34 / / पूर्वशब्दस्य तृतीयपदस्थस्याऽपि पृथग् योजनात् चतुर्दशसङ्ख्यानि पूर्वाण्युत्पादपूर्वाऽऽग्रायणीयवीर्यप्रवादा-ऽस्तिप्रवाद-ज्ञानप्रवादा-(सत्यप्रवादा)ऽऽत्मप्रवाद-कर्मप्रवाद-प्रत्याख्याननामधेयविद्यानुप्रवादाद्यवन्ध्य-प्राणावाय-क्रियाविशाल-लोकबिन्दुसाराभिधेयानि विद्यन्ते येषां ते चतुर्दशपूर्विणः श्रीभद्रबाहुस्वामिन इव, तथा तान्येवाद्यानि दश येषां ते दशपूर्विणः श्यामार्यसूरय इव / ननु चतुर्दशपूर्विणामनन्तरं किमिति त्रयोदश-द्वादशैकादशपूर्विणो विमुच्य दशपूर्विणः प्रतिपादिताः ? उच्यते एते त्रयोऽपि चतुर्दशपूर्विषु विद्यमानेष्वेव विद्यन्ते, न पश्चात् यतोऽन्यानि चत्वार्यपि पूर्वाणि समुदितान्येव व्यवच्छिद्यन्त इति दशपूर्विणोऽभिहिताः, किञ्च एते एव प्रमाणपुरुषा इति, तथा नवपूर्विणः श्रीआर्यरक्षितगुरव इव / तथा दुवालस त्ति अङ्गशब्दस्य प्रत्येकमभिसम्बन्धाद् द्वादशाङ्गिनः / इह चतुर्दशपूर्विणो द्वादशाङ्गिनश्चैकार्था इति न वाच्यम्, यतो द्वादशतमाङ्गस्य * दृष्टिवादलक्षणस्य पञ्चप्रस्थानात्मकत्वात्, तथाहि - "परिकम्म सुत्ताई पुव्वगयाणुगओ चूलियाओ य / एसो पंच विगप्पो, दिट्ठीवाओ मुणेयव्वो" / / [ ] इति, पूर्वाणि च चतुर्दशाऽपि पूर्वगतमध्ये सन्ति, तानि द्वादशतमाङ्गस्यैकदेशभूतानीति तयोः पृथगर्थसिद्धेः, तथा एकादशाङ्गिनश्च ये चाऽस्य भिन्नक्रमार्थत्वात् / ननु अङ्गगाथाप्रस्तावनायां प्रत्यक्षज्ञानिनो दय॑न्त इत्युक्तम् / तत्र केवलि-परमावधि-विपुलमतयः प्रत्यक्षज्ञानिन एव / उक्तञ्च - - "आगमववहारीवजणाओ पञ्चक्खनाणिणो एए / केवलि-मणोहिदंसी चउदस-दसपुव्वी नवपुव्वी" / / [ ] इदानीं ये विशेषानुष्ठानिनो विशेषलब्धिसम्पन्नाश्च तान् सार्धगाथया दर्शयति / जिनकप्पा गाथार्धखीरासवमाहु- 'जिणकप्प' त्ति एकाकित्वनिष्प्रतिकर्मशरीरतया "जिनस्येव कल्पो येषां ते जिनकल्पिकाः / तथा च - 1. समुचितानि एव ल, डर, ड३, 2. पञ्चस्थाना-डर, ड३, 3. पुव्वगयाणुओग-ड२, ड३, 4. जिनस्यैव-डर,