________________ चतुःशरणप्रकीर्णकम् : श्लोक-३३ तथा आचर्यते आसेव्यते ज्ञानार्थिभिरित्याचार्यः, उपेत्याधीयते यस्मादित्युपाध्याय इत्यनया व्युत्पत्या लौकिकाऽऽचार्योपाध्यायाः कलाचार्यादयोऽपि लभ्यन्त इति, तद् व्यवच्छेदाय आह - 'जिणमयम्मि' त्ति जिनमते जिनशासने ये आचार्योपाध्यायाः, एतेन मुख्यानां ग्रहणात् प्रवर्तकस्थविर-गणावच्छेदिनोऽपि ज्ञातव्याः / तत्र - "पञ्चविधाचारकर्ता, प्रणेता च सूत्रार्थोभयवेदी / गच्छालम्बनभूतः, गाम्भीर्यादिलक्षणसारः" / / [ ] उपाध्यायादिनिक्षिप्तगच्छादिभारः, अर्थव्याख्याननिरतः प्रशस्तदेशादिगुणवानाचार्यः / तथा ज्ञान-दर्शन-चारित्रसम्पन्नः, सूत्रार्थोभयनिष्पन्नः, आचार्योच्छासनिकः, द्वादशाङ्गसूत्राऽध्यापकः उपाध्यायः / / तथा तपःसंयमव्यापारेषु योग्येषु शिष्येषु प्रवर्तनासहनिवर्त्तनादक्षः, गणतप्तिकरणप्रवणः प्रवर्तकः / प्रवर्तकव्यापारितार्थेषु सीदमानान् साधून् स्थिरीकुर्वन्तः स्थविराः / . आचार्योपदिष्टशिष्यादिप्रयोजनोद्धावेन [xxxनोद्धावनेन] क्षेत्रोपधिसम्पादनेन गणमोदी सूत्रार्थवेदी गणावच्छेदी / तथाऽत्र - "इकारसंग सुत्तधारगा नवमपुव्वकडजोगी / . बहुस्सुय बहुआगमिया, सुत्तत्थविसारया धीरा" / / [ "एयगुणोववेया, सुयनिहसा नायगा महाणस्स / , .. आयरिय उवज्झाया, पवत्ति थेरा अणुनाया" / / [ ] ते च सर्वे केवलिप्रभृतिसाधवो मम शरणं भवन्त्वित्यर्थः / / 32 / / .. चउदस-दस-नवपुव्वी दुवालसिक्कारसंगिणो जे य / जिणकप्पाऽहालंदिय परिहारविसुद्धिसाहू य / / 33 / / चतुर्दशदशनवपूर्विणः द्वादशैकादशाङ्गिनो ये च / जिनकल्पिका यथालन्दिकाः परिहारविशुद्धिकसाधवश्च / / 33 / / . 1. गच्छालङ्कारभूतः-ल, डर, ड३, 2. गच्छापभारः डर, ड३, 3. व्याख्याने निरतः-ल, 4. निपुणः-लं, डर, ड३, 5. योग्येऽपि शिष्ये-प्र, ड,६. प्रवचनमासहनि-डर, ड३, 7. प्रवर्तकव्यापारितार्थसार्थप्रवर्तकः, सीदमानः साधःस्थिरकरणरुचिरः स्थविरः। ड,ल / प्रवर्तकव्यापारितार्थप्रवर्तकः...डर, ड३,८. शिक्षादिप्रयोजनोद्यावनप्रधावनक्षेत्रो-ड, डर, ड३ /