________________ खण्ड-१ : श्लोक-३२ ङ्ख्येयोत्सर्पिण्यवंसर्पिणीविषयः, द्रव्यतो रूपिद्रव्यप्रभृतियावत्परमाणुदर्शी, भावतः सामान्यतोऽनन्तपर्यायपरिच्छेदको विशेषतः परमाणोरपि चतुष्पर्यायनिर्णयकारी, परमावधिश्चाऽवश्यमन्तर्मुहूर्तेन केवली भवति / "परमोहिन्नाणविओ केवलमंतोमुहुत्तेणं" (वि. आ. भा. 689) ति वचनात्, तद् योगात् साधवोऽपि परमावधयः, उत्कृष्टावधिसाधुभणनेन जघन्यमध्यमावधयोऽप्यन्तर्भाविता ज्ञेयाः / 'विउलमई' त्ति मननं मतिः, विपुला मति येषां ते विपुलमतयः, अत्राऽपि विपुलमतिभणनेन ऋजुमतयोऽप्यन्त विताः, एतौ च मनुष्यक्षेत्रान्तर्वतिसंज्ञिपञ्चेन्द्रियमनोद्रव्यविषयौ, तथाहि - "तं संजयस्स सव्वप्पमायरहियस्स विविहरिद्धिमओ / समयक्खित्तन्मंतरसन्निमणोगयपरित्राणं" / / [वि. आ. भा. 812] तथा अतीते भविष्यति च पल्योपमाऽसङ्ख्येयभागरूपे काले येषां मनोद्रव्याणामतीताऽनागताश्च चिन्तितानुगुणाः पर्यायास्तांश्चेति / विपुलमतिः सम्पूर्णसमयक्षेत्रम्, ऋजुमतिस्तु सा ङ्गुलद्वयहीनं पश्यति। ऋजुमतिः सामान्येन विपुलमतिरशेषविशेषैश्च, तथाहि - : "रिजु सामन्नं तम्मत्तगाहिणी रिउमई मणोनाणं / .. पायं विसेसविमुहं, घडमित्तं चिंतियं मुणइ" / / "विउलं वत्थुविसेसेणमाणं, तग्गाहिणी मई विउला / चिंतियमणुसरइ घडं, पसंगओ पजवसएहिं" / / [वि. आ. भा. 784-785] इति, तथा श्रुतं कालिकोत्कालिकाङ्गप्रविष्टाऽनङ्गप्रविष्टादिलक्षणं धरन्ति, योग्यशिष्यप्रदानेन तस्याऽवस्थितिं कुर्वन्ति इति श्रुतधराः प्रवचनव्याख्याननिपुणाः, तथा च - "सुत्तत्थहेउकारणवागरणसमिद्धचित्तसुयधारी / पोराणदुद्धरधरो सुयरयणनिहाणमिव पुनो" / / [व्यव. भा. 1495] - "धारय-गुणिय-समीहिय-निजवणा-विउलवायण समिद्धो / -पवयणकुसलगुणनिही पवयणाऽहियनिग्गहसमत्थो" / / [व्यव. भा. 1496] ते एवम्भूताः श्रुतधराः / 1. सामान्येन-डर, ड३, 2. अवधिज्ञानभणनेन-ल, डर, ड३, 6-परि-२ /