________________ 30 चतुःशरणप्रकीर्णकम् : श्लोक-३२ . तथा भागो अत्यन्तशक्ति महान्भागः, अतिशयविशेषो येषां ते तथा, तथा ज्ञानादिभिरेव ज्ञान-दर्शन-चारित्रैः शिवसुखं मोक्षसुखं साधयन्तीति निर्वर्त्तयन्ति ये ते शिवसुखसाधकाः, एतेन - [शालिनीवृत्तम्] "मृद्वी शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराह्ने / द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः" / / [षड्दर्शन० 4 बृह.व.] इति, तथा / "हत्वा जीवसहस्राणि, कृत्वा पापशतानि च / स्नात्वा गङ्गाजले पूते, यान्ति जीवाः शिवालयम्" / / [गरुडपुराण-२५] इत्यादिना यदुच्यते तीर्थान्तरीयैस्तन्निरासः कृतः / ते एवंविधाः साधवो मम शरणं भवन्तु / / 31 / / अथ साधवो ये प्रत्यक्षज्ञानादिसम्पदुपेतास्तान् सार्धगाथया आह - केवलिणो परमोही विउलमई सुयहरा जिर्णमयम्मि / आयरिय-उवज्झाया ते सव्वे साहुणो सरणं / / 32 / / केवलिनः परमावधयो विपलमतयः श्रतधरा जिनमते / आचार्योपाध्यायास्ते सर्वे साधवः शरणम् / / 32 / / केवलमसहायं मत्यादिज्ञानाऽनपेक्षं सर्वद्रव्यसर्वपर्यायादिविषयं ज्ञानं विद्यते येषां ते केवलिनः, तथा च - "कसिणं केवलकप्पं, लोगं जाणंति तह य पासंति / केवलचरित्तनाणी, तम्हा ते केवली होति" / / [आव० नि. 1091] . ते च सामान्येन यद्यप्यवध्यादयोऽपि भण्यन्ते, तथापीह सयोगिकेवलिनो ग्राह्याः, अन्येषामग्रतो भणिष्यमाणत्वात्, ते च उत्कृष्टकाले नवकोटीप्रमाणाः प्राप्यन्ते, जघन्यतस्तु कोटीद्वयम् / 'परमोहि 'त्ति, अवधिर्मर्यादा रुपिद्रव्येषु परिच्छेदकतया प्रवृत्तिरुपादुपलक्षितं ज्ञानमप्यवधिः, परमश्चासावधिश्च परमावधिः, स च क्षेत्रतो लोकप्रमाणाऽसङ्ख्येयालोकखण्डप्रमाणः, कालतोऽस 1. रात्रौ-डर, ड३, 2. मोक्षश्चान्त्ये-ड, ल, डर, ड३, 3. विमलमई-ल / 4. केवलिकप्पं-डर, ड३, 5-परि-२ /