________________ खण्ड-१ : श्लोक-३१ 1.23 “विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् / ज्ञानस्य फलं विरतिविरतिफलं चाऽऽश्रवनिरोधः / / संवरफलं तपोबलमथ तपसो निर्जराफलं दृष्टम् / तस्मात् क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् / / योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः / - तस्मात् कल्याणानां सर्वेषां भाजनं विनयः" / / [प्रशमरति 72-73-74] किञ्च - “विणयजुयस्स गुणिणो दिति सुयं सूरिणो किमच्छरियं / को वा न देइ भिक्खं अहवा सोवनिए थाले" / / [ ] इत्यादि तेषु नय-ब्रह्म-हेतुषु साधुगुणेषु जनित उत्पादितो अनुरागो बहुमानो यस्य सः - नयब्रह्महेतुसाधुगुणजनितानुरागः शरणप्रतिपत्ता, केनाऽस्याऽनुरागः कृतः ? इत्याह - सिद्धशरणेन / तथा मेदिन्यां मिलत् लुठत्सुप्रशस्तं भक्तिभरभासुरं मस्तकमुत्तमाङ्गं यस्य स मेदिनीमिलत्सुप्रशस्तमस्तकः गुरुपादाऽर्पितमस्तक इत्यर्थः; स एवंविधः साधुगुणानुरागी भूतलन्यस्तमस्तकः झतत् प्रस्तावेट इदं वक्ष्यमाणं भणति / / 30 / / यदयमाचष्टे तन्नवभिर्गाथाभिराह - जियलोयबंधुणो कुगइसिंधुणो पारगा महाभागा / नाणाइएहिं सिवसुक्खसाहगा साहुणो सरणं / / 31 / / जीवलोकबन्धवः कुगतिसिन्धोः पारगा महाभागाः / ज्ञानादिकैः शिवसुखसाधकाः साधवः शरणम् / / 31 / / जीवलोकस्य प्राणीवर्गस्य षड्निकायात्मकस्य बान्धवा इव बान्धवा ये वर्तन्ते तेषां त्रिविधं त्रिविधेन रक्षाकरणात्, तथा कुतिरेव सिन्धुः कुगतिसिन्धुर्नदी समुद्रो वा, तस्यास्तस्य वा, पारं तीरं गच्छन्तीति पारगास्तीरवर्तिनः, कटाक्षीकृतसुगतित्वात्, यदाह - "आराहणोवउत्तो कालं काऊण सुविहिओ सम्म / उकोसं तिनि भवे गंतूणं लहइ निव्वाणं" / / [आतुरप्रत्या. 61] इति, * 1,2,3-4-परि-२ / 1. बान्धवा वर्तन्ते येषां-ल, ड-२, ड /