SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ चतुःशरणप्रकीर्णकम् : श्लोक-३० उपलब्धपरमबह्माणः, दुर्लभलामा विमुक्तसंरम्भाः / भुवनगृहधरणस्तम्भाः सिद्धाः शरणं निरारम्भाः / / 29 / / .. उपलब्धं प्राप्तं परमब्रह्मज्ञानं यैस्ते उपलब्धपरमब्रह्माणः अवगतकेवला इत्यर्थः / तथा सर्वलाभाग्रेसरत्वात् तल्लाभस्य दुर्लभो लाभो मुक्तिप्राप्तिलक्षणो येषां ते तथा, दुर्लभलाभत्वमेवाऽऽविर्भाव्यते / तथाहि - "जस्सट्ठाए कीरइ नग्गभावे, मुंडभावे, अन्हाणयं अदंतवणयं, केसलोओ, बंभचेरवासो, अच्छत्तगं, अणोवाहणगं, भूमिसिज्जा, फलहसिज्जा, . कट्ठसिज्जा, परघरपवेसो, लद्धावलद्धं, परेहिं हीलणाओ निंदणाओ, .. खिसणाओ, गरिहणाओ, तालणाओ, तज्जणाओ, परिहवणाओ, पञ्चहणाओ, उच्चावया गामकंटगा, बावीसं परीसहोवसग्गा अहियासिज्जंति, तमढे आराहियन्ते" / [ ] तथा वियुक्तः परित्यक्त इतिकर्त्तव्यता पदार्थेषु संरम्भ आटोपो यैस्ते, निष्पन्नसर्वप्रयोजनत्वात् तेषाम्, तथा मुवनं त्रिभुवनम्, तदेव गृहं तस्य धरणमवष्टम्भनम्, तत्र स्तम्मा इव स्तम्भा, भुवनस्य सिद्धशरणप्रतिपन्नलोकस्य दुर्गतौ पततः स्थिराऽऽधारभूतत्वात् तेषामित्यर्थः, तथा निर्गता बहिर्भूता आरम्भेभ्यः कृत्यप्रयोजनेभ्यो ये ते तथा, ते एवंस्वरूपाः सिद्धां मम शरणमालम्बनं भवन्तु इत्यर्थः / एतेन सिद्धाख्यं द्वितीयं शरणमभिहितम् / / 29 / / इदानीं साधुशरणं प्रतिपित्सुर्यद् विधत्ते तदाह - सिद्धसरणेण नयबंभहेउसाहुगुणजणियअणुराओ / मेइणिमिलंतसुपसत्थमत्थओ तत्थिमं भणइ / / 30 / / सिद्धशरणेन नयबह्महेतुसाधुगुणनितानुरागः / मेदिनीमिलत्सुप्रशस्तमस्तकः तत्रेदं मणति / / 30 / / नया नैगमादयस्तैरुपलक्षितं यद् ब्रह्म श्रुतज्ञानं द्वादशाङ्गम्, 'नयभंगपमाणगमगहण मिति वचनात् तस्य नयब्रह्मणो ये हेतवः कारणभूताः साधुगुणा [इति नयब्रह्महेतुसाधुगुणाः] विनयादयः / विनयगुणसम्पन्नस्यैव येनाऽन्योन्यगुणाऽवाप्तिस्तथाहि - 1. आविभाव्यते-ल, 2. अहन्हाणयं-ढ२, 13, 3. वाहणगा-ड, 4. कंटका-ल, 5. प्रतिपत्लोकस्य-ड, 6. कृतप्रयो-ल. डर।
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy