SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ खण्ड-१ : श्लोक-२८, 29 ___ "जह चिरसंचियमिंधणमनलो पवणसहियो दुयं दहइ / - तह कम्मिंधणममियं, खणेण झाणानलो डहइ" / / [आव. नि. ध्या. श. 101] तेन दग्धं भस्मसात् कृतं भवबीजं ज्ञानावरणीयादि यैस्ते, तथा योगीश्वरैर्गणधरैश्छद्मस्थतीर्थकरैर्वा तत्सुखमभिलाषुभिः स्मरणीया ध्येया: शरणीया वाऽनुगन्तव्याः शरणत्वेन ते ऐव गुणगरिष्ठाः सिद्धाः शरणत्वेन त्रिसन्ध्यमपि स्मरणीया इत्यर्थः / / 27 / / पावियपरमाणंदा गुणनीसंदा विदिण्णभवकंदा / लहुईकयरविचंदा सिद्धा सरणं खवियदंदा / / 28 / / प्रापितपरमानन्दाः गुणनिष्यन्दाः विदीर्णभवकन्दाः / लघुकीकृतरविचन्द्राः सिद्धाः शरणं क्षपितद्वन्द्वाः / / 28 / / सदा मुदितत्वात् प्रापितः आत्मजीवं प्रति ढौकितः, प्राकृतत्वाद् वा प्राप्तः, परमानन्दः परमोल्लासविशेषो यैस्ते, तथा गुणानां ज्ञान-दर्शन-चारित्ररूपाणां परिपाकप्राप्तत्वानिष्यन्दः सारो येषां ते तथा, तथा कर्मोच्छेदनात् विदीर्णो दारितः स्फाटितो भवस्य संसारस्य कन्दो यैस्ते तथा, तथा केवलोद्योतेन लघुकीकृतौ अल्पप्रभावीकृतौ रविचन्द्रौ यैर्यतस्तदुद्योतस्य योजनप्रमितत्वात्, तथाहि - “रविणो उदयत्यंतर चउनवइसहस्स पणसय छब्बीसा / बायालसट्ठिभागा कक्कडसंकति दियहमि" / / [बृहत्संग्रहणी 116] एतत्, जम्बूद्वीपमाश्रित्योक्तम्, तथा - “लक्खेहिं इक्कवीसाइ, साइरेगेहिं पुक्खरद्धम्मि / . उदए पिच्छंति नरा, सूरं उक्कोसए दिवसे" / / [वि. आ. भा. 345] इति / / सिद्धास्तु केवलज्ञानज्योतिषा लोकमपि प्रकाशयन्तीत्यर्थः / तथा निष्कषायत्वात् क्षपितं क्षयं नीतं द्वन्द्वं सङ्ग्रामो यैस्ते तथा, ते एवंविधाः सिद्धाः शरणं भवन्तु / / 28 / / उवलद्धपरमबंभा दुल्लहलंभा विमुक्कसंरंभा / भुवणघरधरणखंभा सिद्धा सरणं निरारंभा / / 29 / / * 1. स च बीजम् डर, ड३, 2. एवं-ड२, ड३ / Y-z-परि-२ /
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy