________________ 26 चतुःशरणप्रकीर्णकमः श्लोक-२६, 27 मूलक्खयपडिवक्खा अमूढलक्खा सजोगिपञ्चक्खा / साहावियत्तसुक्खा सिद्धा सरणं परममुक्खा / / 26 / / मूलोत्खातप्रतिपक्षा अमूढलक्षाः सयोगिप्रत्यक्षाः / / स्वाभाविकात्तसुखाः सिद्धाः शरणं परममोक्षाः / / 26 / / मूलस्य संसारहेतुकर्मबन्धमूलस्य मिथ्यात्वा-ऽविरति-कषाय-योगरूपशत्रुसङ्घातस्य [उत् प्राबल्येन] क्षये कर्तव्ये प्रतिपक्षा इव वैरिण इव तज्जयं कृतवन्त इत्यर्थः, मूलोत्खातकर्मप्रतिपक्षाः वा, अथवा केवलज्ञानात्मकत्वाज्जीवस्य मूलं निर्मलता केवलज्ञानं तस्य क्षयः कर्मभिराच्छादनम्, तस्य पुनः प्रकटीकरणस्वरूपस्थापने प्रतिपक्षा वैरिण इत्यर्थः / तथा लक्ष्ये द्रष्टव्यपदार्थे न मूढा अमूढलक्ष्याः सदोपयुक्तत्वात्तेषाम् तथा शेषज्ञानिनामविषयत्वात् सयोगिनामेव सयोगिकेवलिनां प्रत्यक्षा दृश्याः / तथा सदाऽपि सुखसम्पूर्णत्वेन तृप्तत्वात् स्वाभाविकमात्तं गृहीतं सुखं यैस्ते / तथा च - x“इय सव्वकालतित्ता, अउलं निव्वाणमुवगया सिद्धा / सासयमव्वाबाहं, चिटुंति सुही सुहं पत्ता" / / [आव. नि. 986] पुनः किं विशिष्टाः ? परमः प्रकृष्टो अत्यन्तविगमात् कर्मभिः सह मोक्षो वियोगो विकटीभावो येषां ते तथा यदि वा परममोक्षयोगात्परममोक्षाः ते सिद्धाः शरणं भवन्तु इत्यर्थः / / 26 / / पडिपिल्लियपडणीया समग्गझाणग्गिदडभवबीया / ' जोईसरसरणीया सिद्धा सरणं समरणीया / / 27 / / प्रतिप्रेरितप्रत्यनीकाः समग्रध्यानाग्निदग्धभवबीजाः / योगीश्वरस्मरणीयाः [शरणीयाः] सिद्धाः शरणं स्मरणीयाः / / 27 / / कर्मोपाधियुक्तत्वात् प्रतिप्रेरिताः क्षिप्ता अनादृताः प्रत्यनीकाः शत्रवो यैः समशत्रुमित्रत्वात् / यदि वा प्रतिप्रेरिता निराकृताः प्रत्यनीका अभ्यन्तरशत्रवो रागादयो यस्ते, तथा समग्रं सम्पूर्ण यद् ध्यानं परमलयः तदेवाग्निः, यदाह - 1. लक्षाः-ड३, 2. शेषज्ञानानाम्-डर, 3. समशत्रुसिद्धत्वात् ल, डर, ड३, 4. प्रत्यनीका अभावशत्रवो ड, 5. रागाद्याः ड, x-परि-२ /