________________ खण्ड-१ : श्लोक-२५ तियोयमत्थयत्था परमपयत्था अचिंतसामत्था / मङ्गलसिद्धपयत्था सिद्धा सरणं सुहपसत्था / / 25 / / त्रैलोक्यमस्तकस्थाः परमपदस्था अचिन्त्यसामर्थ्याः / - मङ्गलसिद्धपदार्थाः सिद्धाः शरणं सुखप्रशस्ताः / / 25 / / त्रैलोक्यस्याधस्तिर्यगू लोकलक्षणस्य चतुर्दशरज्ज्वात्मकलोकस्य यन्मस्तकं सर्वोपरिवर्तिस्थानं पञ्चचत्वारिंशल्लक्षविस्तीर्णमीषत्प्राग्भाराख्यं सिद्धिक्षेत्रम्, तस्याऽप्युपरितनयोजनस्य योऽसौ क्रोशस्तस्याऽपि य षड्भागरूप आकाशदेशस्तत्र तिष्ठन्तीति / उक्तञ्च - "पणयाललक्खजोयण विक्खंभा सिद्धसिलफलिह विमला / तदुवरिगजोयणंते, लोगंतो तत्थ सिद्धठिई" / / [बृहत्संग्रहणी 55] इति, तथा - "ईसीपब्मारगए उवरि खलु, जोयणस्स जो कोसो / . कोसस्स य छन्माए, सिद्धाणोगाहणा मणिया" / / [आव. नि. 965] इति / / तथा परमपदं मुक्तिपदं तदर्थत्वात् / निशिततरवारिधाराचङ्क्रमणकल्पचारित्रादिकष्टकलापस्तत्र तिष्ठन्तीति ते तथा / तथा अनन्तचतुष्टयोपेतत्वात् अचिन्त्यसामर्थ्य जीवशक्तिविशेषो येषां ते तथा, तथा दुष्टाष्टप्रबलकर्मारिप्रविजयेन प्रवरशिवपुरप्रवेशतो मङ्गलरूपाः सिद्धाः सम्पन्नाः पदार्थाः येषां ते तथा, अथवा सांसारिकदुःखविरहितं मङ्गलभूतं यत् सिद्धिपदं तत्र तिष्ठन्तीति ते तथा, ते सिद्धाः शरणं भवन्तु / पुनः कथम्भूताः ? निस्तीर्णसर्वदुःखजातिजरामरणत्वादाबाधारहितत्वाञ्च सुखेन मुक्तिप्रभवेन प्रशस्ताः अव्याकुलाः / तथा च - W"निच्छिन्नसव्वदुक्खा, जाइजरामरणबंधणविमुक्का / अव्वाबाहं सुक्खं, अणुहवंति सासयं सिद्धा" / / [आव. नि. 988] इति प्रशस्तसुखा इत्यर्थः / / 25 / / * ईसीपब्भाराए सीआए जोअणंमि जो कोसो ! आव.हा.वृत्तौ गाथा-९६५ पूर्वार्धः / 1. ति तथा - डर, ड३, 2. कर्मरिपुवजयेन-ड, v,w-परि-२ /