SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 24 चतुःशरणप्रकीर्णकमः श्लोक-२४ अर्हत्छरणमलशुद्धिलब्धपरिशुद्धसिद्धबहुमानः / प्रणतशिरोरचितकरकमलशेखरः सहर्ष भणति / / 23 / / अर्हच्छरणेन या मलस्य कर्मरजसः शुद्धिस्तया लब्धः परिशुद्धो निर्मल: सिद्धान् प्रति बहुमानो भक्तिर्येन स तथा, किम्भूतः ? प्रणतं भक्तिवशान्नम्रीभूतं यच्छिरस्तत्र रचितः कृतः करकुड्मल एव शेखरो येन स तथा, सहर्ष सानन्दं यथा भवत्येवं भणति / / 23 / / यच्चायं भणति, तद् गाथाषट्केनाऽऽह कम्मट्ठक्खयसिद्धा साहावियनाण-दसणसमिद्धा / सव्वट्ठलद्धिसिद्धा ते सिद्धा हुँतु मे सरणं / / 24 / / कर्माष्टकक्षयसिद्धाः स्वाभाविकज्ञानदर्शनसमृद्धाः / सर्वार्थलब्धिसिद्धास्ते सिद्धा भवन्तु मम शरणम् / / 24 / / कर्माष्टकक्षयेण सिद्धाः ते सिद्धाः प्रसिद्धास्ते च तीर्थसिद्धादिभेदेन पञ्चदशधा / पुनः कथम्भूताः ? स्वाभाविके निरावरणे अनवच्छिन्नप्रवाहे 'ये ज्ञान-दर्शने ताभ्यां संमृद्धाः स्फीतिमन्तः / तथा च - “असरीरा जीवप्राणा, उवउत्ता दंसणे य नाणे य / सागारमणागारं, लक्खणमेयं तु सिद्धाणं" / / "केवलनाण(णु)वउत्ता, जाणंती सव्वभावगुणभावे / पासंति सव्वओ खलु, केवल दिट्ठीहिंऽणंताहि" / / [आव. नि. 977-978] तथा अर्थ्यन्तेऽभिलष्यन्ते इत्यर्थाः, तेषां लब्धयः प्राप्तयः / सर्वाश्च ता अर्थलब्धयश्च, कृतकृत्यत्वात् सर्वार्थलब्धयो दानाद्याः सिद्धा निष्पन्ना येषां ते तथा / उक्तञ्च - . "सिद्धाणि सव्वकज्जाणि जाण न य से असाहियं किंचि / विज्जासुहइच्छाई तम्हा सिद्ध त्ति से सद्दो" / / [ ते सिद्धा मम शरणं भवन्तु इत्यर्थः / / 24 / / 1. जीवघणा-ड, T-U-परि-२ /
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy