________________ खण्ड-१ : श्लोक-२२, 23 अत्यद्भुतगुणवतः, तथा 'निजयश एव शशधरो निजयशःशशधरस्तेन प्रसाधिता मण्डिता धवलीकृताः दिगन्ता यैस्ते तान् निजयशः शशधरप्रसाधितदिगन्तान् / नियतं शाश्वतं वा, यथा भवत्येवं ने आदि न चान्तो येषां तेऽनाद्यनन्तास्तानर्हतोऽहं शरणं प्रतिपन्नस्तानाश्रित इत्यर्थः, एतेन कालत्रयभाविनोऽपि जिना गृहीतास्तथा च - “सत्तरिसयमुक्कोसं वीस जहन्नेण वट्टमाणजिणा / तीयाऽणागयकालेणं ता सव्वे वि गहिया उ" / / [ ] / / 21 / / अथ कृताऽर्हत्शरणो विशेषेण तेषां नमस्कारमाह - उझियजर-मरणाणं समत्तदुक्खत्तसत्तसरणाणं / तिहुयणजणसुहयाणं अरहंताणं नमो ताणं / / 22 / / उज्झितजरामरणेभ्यः समस्तदुःखार्तसत्त्वशरणेभ्यः / त्रिभुवनजनसुखदेभ्योऽर्हन्यो नमस्तेभ्यः / / 22 / / .. जरामरणकारणकर्मरहितत्वादुज्झितानि त्यक्तानि जरामरणानि यैस्ते तेभ्यः, समाप्तानि सम्पूर्णानि समस्तानि वा यानि दुःखानि तैरा" रूता वा पीडितास्ते च ते सत्त्वाश्च समाप्तदुःखार्त्तसत्त्वाः समस्तदुःखार्तसत्वाः वा तेषां शरण्यास्तेभ्यः / तथा त्रिभुवनजनानां सुखं ददतीति ते, तथा तेभ्यः, "भगवंति वद्धमाणे तिलुक्कसुहावहे. जाए” इति वचनात्, “छट्ठी विभत्तीइ भन्नइ चउत्थी" इति प्राकृतबलात् सर्वत्र चतुर्थ्यर्थे षष्ठी, तेन तेभ्योऽर्हद्भ्यो नमः नमस्कारोऽस्तु / यतोऽर्हनमस्कारस्य महत्पुण्यहेतुत्वात् / उक्तञ्च - _ "अरहंतनमुक्कारो, जीवं मोएइ भवसहस्साओ / . भावेण कीरमाणो, होइ पुणो बोहिलाभाए" / / [आव. नि. 923] इत्यादि / / 22 / / अथ यथाविधि द्वितीयं शरणं करोति तथा तदाह - अरहंतसरणमलसुद्धिलद्धपरिसुद्धसिद्धबहुमाणो / पणयसिरिरइयकरकमलसेहरो सहरिसं भणइ / / 23 / / 1. निजयश एव शशिधरो निजयशशशिधरो, निजयशशशधरस्तेन-डर, ड, ल, ड३ / निजयश एव शशधरो निजयशः शशधरस्तेन इति पाठोऽवचूर्याम् / 2. न चान्तो इति अशुद्धः पाठः ड, डर,ड३, ल / न आदि नवांतोऽवचूर्याम् / R-परि-२ / .3.. अरिहंताणं-ड, 4. अरिहंत-ड, S-परि-२ /