________________ चतुःशरणप्रकीर्णकम्ः श्लोक-२०, 21 वयणामएण भुवणं निव्वावित्ता गुणेसु ठावित्ता / जियलोयमुद्धरित्ता अरिहंता हुंतु मे सरणं / / 20 / / वचनामृतेन भुवनं निर्वाप्य गुणेषु स्थापयित्वा / जीवलोकमुद्धृत्याऽर्हन्तो भवन्तु मे शरणम् / / 20 / / वचनमेवाऽमृतं वचनाऽमृतं क्षुत्-पिपासा-पीडादिदोषनिरसनसमर्थत्वात् / उक्तं च - "सव्वाऊयं पि सोया खविज जइवि हु सययं जिणो कहइ / सीउण्हखुप्पिवासापरिस्समभए अविगणंतो" / / [आव. नि. 579] ... किञ्च - "नरगतिरियमणुयसुरगणसंसारियसव्वदुक्खरोगाणं / जिणवयणमिगमोसहं, अपवग्गसुहिक्ककयफलयं" / / [ध्या०श० 45 वृ० ] तेन वचनामृतेन भुवनं लोकं निर्वाप्य तस्य तृप्तिमुत्पाद्य निर्वापयन्तो वा प्रीणयन्तः / तथा गुणेषु उत्तरोत्तरगुणस्थानकेषु सम्यक्त्वविरताविरतप्रमत्ताप्रमत्तादिकेषु भुवनमेव स्थापयित्वा स्थापयन्तो वा सदुपदेशवशात् तानि प्रापयन्त इत्यर्थः, तथा जीवलोकं भव्यजीवलोकम, अभव्यास्तु तीर्थङ्करोपदेशेनाऽपि नाऽवबुध्यन्ते यस्मादिति / "तित्थयरेण वि कहिए अभव्वजीवा न बुझंति" इति वचनात् तमुद्धृत्य उद्धरन्तो वा भवान्धकूपादिति गम्यत्वात्, तस्मात् स्ववचनरज्जुनाऽऽकर्षयन्त इत्यर्थः ये तेऽर्हन्तः / शेषं तथैव / / 20 / / अथातीताऽनागतार्हत्शरणद्वारेण तन्निगमयन्नाह - . अञ्चन्मयगुणवंते नियजसससहरपसाहियदियंते / निययमणाइअणंते पडिवन्नो सरणमरिहंते / / 21 / / अत्यद्भुतगुणवतो निजयशःशशधरप्रसाधितदिगन्तान् / नियतमनाद्यनन्तान् प्रतिपन्नः शरणमर्हन्तः / / 21 / / अत्यद्भुतगुणा बुद्धातिशय-वचनातिशय-प्रातिहार्यलक्षणास्ते विद्यन्ते येषां ते तथा, तान् 1. गुणेहि-ड, 2. तं लोक-डर/ल, 3. मवस्था-ड, 4. ककिए-ड, डर, ल, 5. ससिहर ड, 6. प्राप्तिप्रातिहार्य-ल, डर iR-परि-२ /