________________ खण्ड-१ : श्लोक-१९ उपदेश-स्तुति-ध्यान-तपो दानौषधादिषु गुणस्तवे / श्रुताऽध्याये पौनरुक्तयं न गण्यते अर्हन्तः / / [ ] शेषं तथैव / / 18 / / एगाए गिराणेगं संदेहं देहिणं समुच्छित्ता / तिहुयणमणुसासित्ता अरिहंता हुंतु मे सरणं / / 19 / / एकया गिराऽनेकान् सन्देहान् देहिनां समुच्छेद्य / त्रिभुवनमनुशासयन्तोऽर्हन्तो भवन्तु मे शरणम् / / 19 / / एकया गिरा वाचा एकेनाऽपि वचनेन अनेकेषां देहिनां प्राणिनामनेकप्रकारसन्देहं संशयं समुच्छेद्य संशयत्रुटिं कृत्वेत्यर्थः / / उक्तञ्च - "रिभियं पयऽक्खरसबला, मिच्छितरतिरिच्छसिगिरपरिणामा / मणनिव्वाणी वाणी जोयणनीहारिणी किं च" / / “एगाए अणेगेसिं संशयवोच्छेयणमि अपडिहया / न य निविज्जइ सोया तिप्पइ सव्वाउएणंपि" / / [घ्या.श.वृ. 1] ननु कथमर्हगीरेकाऽपि युगपत्प्रतिप्राणिसंशयव्यवच्छेदाय भवति ? उच्यते, एकस्यामपि भगवद्भाषायां सर्घाक्षरसंयोगः कथमप्यस्ति / स च श्रोतृश्रवणपुद्गलस्पृष्टः सन् व्यक्तीभवति / तथाहि - अर्हद्भाषादलिकानि नाम सन्देहवतां श्रोतृणां कर्णकोटरं प्रविष्टानि, ततस्तत् श्रवणपुद्गलसंयोगतः स्वकीयां सर्वाक्षरसन्निपातलक्षणां शक्तिं व्यक्तीकुर्वन्ति ततस्तदुत्तररूपतयाऽनेकशः परिणमन्ति / दृश्यते च द्रव्यान्तरसंयोगेन द्रव्याऽन्यथाभावः, यथा हरिद्रायाश्चूर्णसंयोगेनारूणत्वं नीलीसंयोगेन नीलत्वमित्यादि / अत्राऽर्थे श्री भद्रबाहुगुरवोऽप्याहुः - Q"वासोदगस्स व जहा वन्नाइ हुति भायणविसेसा / सव्वेसि पि सभासा जिणभासा परिणमइ एवं" / / [आव० नि० 577] अत एकापि गीः संशयवतां निजनिजभाषात्वेन परिणमन्ती, सर्वेषामपि संशयव्यवच्छेदिका भक्तीति सुस्थम् / तथा त्रिभुवनमनुशाष्य शिक्षयित्वा अनुशासयन्तो वा सम्यक्त्व-देशविरतिसर्वविरतिलक्षणशिक्षाप्रदानेन ते / शेषं तथैव / / 19 / / 1. परिणमन्तो-ल, ड, डर, ड३ परिणमन्ति अवचूर्याम् / 2. चूर्णक-ल, डर, ड३ / Q-1-परि-२ /