________________ चतुःशरणप्रकीर्णकम् : श्लोक-१८ ५-अनुनादित्वं प्रतिरवोपेतता, ६-दक्षिणत्वं सरलत्वम्, ७-उपनीतरागत्वं मालवकैशिक्यादि ग्रामरागयुक्तत्वम्, एते सप्त शब्दा-पेक्षयाऽतिशयाः, एते त्वर्थापेक्षया तत्र, ८-महार्थत्वं बृहदभिधेयता, ९-अव्याहतपूर्वापरत्वं पूर्वाऽपरवाक्याऽविरोधः, १०-शिष्टत्वमभिमतसिद्धान्तोक्तार्थता वक्तुः शिष्टतासूचकत्वं वा, ११-असन्दिग्धत्वमसंशयकारिता, १२-अपहतान्योत्तरत्वं परदूषणा-विषयता, १३-हृदयग्राहित्वं श्रोतृमनोहरता परचित्ताऽऽहादकत्वम्, १४-देशकालाऽव्यतीतत्वं प्रस्तावोचितता, १५-तत्त्वानुरुपत्वं विवक्षितवस्तुस्वरूपानुसारिता, १६-अप्रकीर्णप्रसृतत्वं सुसम्बद्धस्य सतः प्रसरणम्, अथवाऽसम्बद्धाधिकारित्वात्विस्तरतोऽभावः, १७-अन्योन्यप्रगृहीतत्वं परस्परेण पदानां वाक्यानां वा सापेक्षता, १८-अभिजातत्वं वक्तः प्रतिपाद्यस्य वा भूमिकानुसारिता, १९-अतिस्निग्धमधुरत्वं घृतगुडादिवत्सुखकारित्वं, २०-अपरममवेधित्वं परमर्मानुद्धट्टनस्वरूपत्वम्, २१-अर्थधर्माऽभ्यासानपेतत्वमर्थधर्मप्रतिबद्धत्वम्, २२-उदारत्वम-भिधेयाऽर्थस्याऽतुच्छत्वं गुम्फगुणविशेषो वा, २३-परनिन्दास्वोत्कर्षवियुक्तत्वं प्रतीतमेव, २४-उपगतश्लाघ्यत्वमुक्त-गुणयोगात् प्राप्तश्लाघ्यता, २५-अपनीत(दोष)त्वं कारक-काल-वचन-लिङ्गादिव्यत्यय रूपवचनदोषापेतता, २६-उत्पादिताच्छिन्नकौतूहलत्वं स्वविषये श्रोतृणां जनितमविच्छिन्नं कौतूहलत्वं येन तत्तथा तद्भावस्तत्त्वम्, २७-२८-अद्भूतत्वमविलम्बितत्वं च प्रतीतमेव, २९-विभ्रमविक्षेप-किलकिञ्चितादिवियुक्तत्वं विभ्रमो-वक्तृमनसो भ्रान्तता विक्षेपस्तस्यैवाभिधेयत्वं प्रत्यनासक्तता किलिकिञ्चितं रोषभयाऽभिलाषादि-भावानां युगपद्वा सकृतकरणमादिशब्दान्मनोदोषान्तरपरिग्रहः तैर्विप्रमुक्तं यत्तत्तथा तद्भावस्तत्त्वम्, ३०-अनेकजातिसंश्रयाद् विचित्रत्वं, इह जातंयो वर्णनीयवस्तुस्वरूपवर्णनानि, ३१-आहितविशेषत्वं वचनान्तरापेक्षया ढौकितविशेषणत्वम्, ३२-साकारत्वं विच्छिन्नवर्णपदवाक्यत्वेनाऽऽकारप्राप्तत्वम्, ३३-सत्त्वपरिगृहीतत्वं साहसोपेतता, ३४-अपरिखेदित्वमनायाससम्भवः, ३५-अव्युच्छेवित्वं विविक्षितार्थसम्यसिद्धिं यावदव्यवच्छिन्नवचनप्रमेयतेति। [समवा०सू० 35] एवमेते पञ्चत्रिंशद्वचनातिशयास्तानप्यासेव्य उपयुज्येत्यर्थः / तथा धर्मकथां च कथयित्वा ये मुक्तिं यान्ति यास्यन्ति याता इत्यध्याहार्यम् / पूर्व धर्मकथनयोग्या इत्युक्तवचनतो धर्मं कथयित्वेति न पौनरुक्तयम् / तथाऽत्राऽध्ययने यत्र कुत्राऽपि पौनरुक्त्यसम्भवस्तत् तत् स्तुत्युपदेशरूपादित्वेन तत्परिहारः कार्यः उक्तञ्च - HTHHAL