________________ 36 चतुःशरणप्रकीर्णकम् : श्लोक-३४ कुट्ठगबुद्धी य त्ति नीरन्ध्रधान्यकोष्ठकक्षिप्तधान्यवद् ये सुनिश्चितस्थिरसंस्कारसूत्रार्थास्ते कोष्ठकबुद्धयः / उक्तञ्च - "कुट्ठयधनसुनिग्गलसुत्तत्था कुट्ठबुद्धिया" / [वि. आ. भा. 799 उत्तरार्धः] चारण त्ति अतिशयचरणाञ्चारणास्ते च द्विधा जङ्घाचारणा विद्याचारणाश्च - "अइसयचरणसमत्था, जंघाविजाहिं चारणा मुणओ / जंघाहिं जाइ पढमो, नीसं काउं रविकरे वि / / एगुप्पाएण गओ, रुयगवरमी तओ पडिनियत्तो / बीएणं नंदिस्सरं, इहं तओ एइ तइएणं / / पढमेण पंडगवणं, बीयोप्पारण नंदणं एइ / एइ इहं तईएणं, जो वि जंघाचारणो होइ / / पढमेण माणुसुत्तरनगं, स नंदिसरं तु बीएणं / एइ इहं तईएणं, कयचेइयवंदणो "साहू / / . . पढमेण नन्दणवणं, बीयुप्पारण पंडगवणम्मि / / ... एइ इहं तइएणं, जो विजाचारणो होइ" / / [वि. आ. भा. 786-790] तथाऽन्येऽपि बहुप्रकाराश्चारणाः साधवो भवन्ति, तद्यथा - आकाशगामिनः, पर्यावस्थानिषण्णाः कायोत्सर्गस्थशरीरा वा पादोत्क्षेपनिक्षेपक्रमाद् विना व्योमचारिणः / केचित् तु जलफल-पुष्प-पत्र-श्रेण्य-ग्निशिखा-नीहाराऽवश्याय-मेघवारिधारामर्कटतन्तुज्योतिरश्मिपतनायाऽऽलम्बनगतिपरिणामकुशला वापी-निम्नगादिजले तज्जीवानविराधयन्तो भूमाविव 'पादोत्क्षेपनिक्षेपकुशला भुव उपरि चतुरङ्गुलप्रमिते आकाशे विक्षेपोत्क्षेपनिपुणा जङ्घाचारणा इति / वेउवि त्ति वैक्रियलब्धिमन्तः साधवस्तेषां नानारुपैरसङ्ख्येयद्वीपसमुद्राभरणविषया वैक्रियशक्तिर्भवति / जम्बूद्वीपं तु स्त्र्यादिरूपैर्बिभ्रत्यपि / पयाणुसारिणो त्ति ये पूर्वापरपदानुसारतत्रुटितपदमनुसरन्ति, पूरयन्ति इति सूत्रार्थः / ते पदानुसारिणो वज्रस्वामिन इव, उक्तञ्च - 1. निखिन्ना-ड, ल, डर, ड३, 2. सद्यवा-ड, 3. पादोत्क्षेपकुशला-ड२, * इहई पाठो वि.आ.भा. मुद्रिते / 8-परि-२ /