________________ चतुःशरणप्रकीर्णकम् : श्लोक-१८ ओसरणमुवसरित्ता चउतीसं अइसए निसेवित्ता / धम्मकहं च कहित्ता अरिहंता हुंतु मे सरणं / / 18 / / समवसरणमुपसृत्य चतुस्त्रिंशतोऽतिशयान् निषेव्य / धर्मकथां च कथयित्वा, अर्हन्तो भवन्तु मे शरणम् / / 18 / / सम् सामस्त्येनाऽवश्रियते गम्यते संसारभयोद्विग्ने वैरिति समवसरणम् / 'आत्माङ्गुलेन योजनप्रमाणभूभागं प्रथमतः संवर्तकवाताऽपनीततृणकचवराद्यशुभमलपटलम्, तदनु सुरभिगन्धोदकपुष्पवर्षणा भिषिक्तभूभागम्, मणिरत्नतपनीयसन्ततिपरिकर्मितहैमकुट्टिमतलम्, वैमानिकज्योतिष्कभवनपतिविनिर्मिताभ्यन्तरमध्यबाह्यमणिरत्नस्वर्णकपिशीर्षकोपशोभितरत्नकाञ्चनरूप्यंनिचयचतुर्दारप्राकारत्रयम्, चतुर्दिग्व्यवस्थापितसहस्रारधर्मचक्रचतुष्टम्, कुड्भीसहस्रोपशोभितयोजनसहस्रोच्छ्रितरत्नमयधर्मध्वजचतुष्टयम्, जलस्थलजपञ्चवर्णपुष्पप्रकरोपहारसारम्, कृष्णागुरुप्रभृतिधूपधूमोगारसारप्रकटवज्रघटीसुरभितदिगन्तम्, स्पष्टाष्टमाङ्गलिकतिलकितसच्छत्रविचित्रघण्टाप्रकटचलचारुचामरविसरम्, विशालशाल-भञ्जिकाविराजितकरिमकरसिंहगरुडध्वजादिकलितवज्रवैडूर्येन्द्रनील प्रमुखरत्नोत्करकर्बुरितमणिमयस्तम्भसन्निविष्टेहामृर्गविहगतुरगकुञ्जररुरुसरभवृषभवनलतापद्मलताविभक्तिव्यक्तीकृतचारुचमत्कारसारतोरणोपशोभितचतुर्दारम्,' तन्मध्यभागविन्यस्तप्रशस्तरत्नमयपीठम्, तदुपरिपरिकल्पितदेवछन्दकम्, तदुपर्यशोकतरुविरचितरमणीयमध्यदेशम्, अशोकवृक्षोपरिस्थितचैत्यविटपिप्रकटितातिशयम्, चैत्यवृक्षोपरि स्फुरच्छत्रातिछत्रत्रितयम्, अशोकवृक्षसमीपोपन्यस्तस्थापितसचरणपीठसिंहासनचतुष्टकम्, आग्नेयादिदिग्व्यवस्थितमुनिवैमानिकसुन्दरी-श्रमणी-भवनपति-व्यन्तर-ज्योतिष्कामरी-वैमानिकसुर-नर-नारीविशदद्वादशपर्षदुपशोभमानम्, एवंविधं यत् समवसरणम्, तदुपसृत्य अलङ्कृत्य तथा चतुझिंशतो बुद्धाऽतिशयान् निषेव्य, उपलक्षणत्वाञ्च पञ्चत्रिंशद्वचनाऽतिशयांश्चोपयुज्य / . ते चाऽमी बुद्धाऽतिशयाः - चउतीसं बुद्धाइसेसा पन्नत्ता, तं जहा १-अवट्ठिए केसमंस-रोम-नहे, २-निरामया, निरुवलेवा गायलट्ठी, ३-गोक्खीरपंडुरे मंस-सोणिए, ४-पउमुप्पलगंधिए ऊसासनीसासे, ५-पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा, ६-आगासगयं चक्कं, ७-आगासगयं छत्तं, ८-आगासगयाओ सेयवरचामराओ, ९-आगासगयं फलिहामयं सपायपीढं सीहासणं, १०-आगासगओ कुड्भीसहस्स 1. "आत्मा...भूभागं" इति पाठः स्पष्टः न भाति ल, ड, डर प्रतिषु / 2. पवन-ल, डर, 3. वज्र-ल, ड२; 4. तोत्तमहैम-डर, 5. मणिमय-डर, ल /