________________ चतुःशरणप्रकीर्णकम्ः श्लोक-१५, 16 "संवच्छरमुसमजिणो, छम्मासा वद्धमाणजिणचंदो / इय विहरिया निरसणा, जइज्ज एयाणुमाणेण" / / इत्यादि [उपदेशमाला-३] तत्तपोऽनुचर्य आसेव्य ये केवलश्रियं केवलज्ञानविभूतिमर्हन्तस्तस्या योग्या भवन्ति [ते] अर्हन्तस्तीर्थकृतो मे शरणं परित्राणं भवन्त्विति सत्र योज्यम् / अथवा ये राज्यश्रीमपकर्षयन्तस्त्यजन्तः, तथा तपश्चरणं दुश्चरमनुचरन्तः केवलश्रीं चाऽर्हन्तः प्राप्नुवन्तो ये, मे शरणम्, एतेन यद्यपि शक्रादयो गर्भस्थमात्रमपि जिनं नमस्कुर्वन्ति, तथाऽपि गृहवासे तेषामप्यविरतत्वात् साधूनां तिसृष्ववस्थासु ते नमस्करणयोग्या इति दर्शितम् / यञ्चाऽनागतजिना नमस्क्रियन्ते तत्तेऽपि चारित्रावस्थास्था एवेति भावः / / 14 / / [द्रव्यजिनानां नमस्करणीयतायां सर्वविरतानां साधु-साध्वीनां देशविरतानामविरतानां च श्रावक-श्राविकाणां किदृशः कियद् वाऽधिकारो वर्त्तत इत्येवात्र समाधिप्रापणाय पू. उपाध्यायप्रवरश्रीधर्मसागरगणिसंदृब्धप्रवचनपरीक्षायाः पू. महोपाध्यायश्री यशोविजयगणिविरचितप्रतिमाशतकस्य संटङ्क उल्लेखः सूक्ष्मबुद्ध्याऽवलोकनीयो जिज्ञासुभिः / द्वावप्युल्लेखौ परिशिष्ट-११ मध्ये संकलय्य मुद्रितावस्माभिः- सम्पादकः] थुय-वंदणमरिहंता अमरिंद-नरिंदपूयमरिहंता / सासयसुहमरहंता अरिहंता हुंतु मे सरणं / / 15 / / स्तुतिवन्दनमर्हन्तोऽमरेन्द्रनरेन्द्रपूजामर्हन्तः / शाश्वतसुखमर्हन्तोऽर्हन्तो भवन्तु मे शरणम् / / 15 / / थुय-स्तुतिः स्तवः “सव्वन्नु सोमदंसण” इत्यादि, वंदणं-कायिकप्रणामस्तावर्हन्तस्तयोोग्या इत्यर्थः / अमरेन्द्रनरेन्द्राणां पूजां समवसरणादिकां समृद्धि मर्हन्तस्तस्या अपि योग्या भवन्तु इत्यर्थः / शश्वद् भवं शाश्वतम्, तञ्च तत् सुखं च शाश्वतसुखं निर्वाणानन्तरं तदप्यर्हन्तीत्यर्थः। शेषं तथैव / / 15 / / परमणगयं मुणित्ता जोइंद-महिंदझाणमरिहंता / धम्मकहं अरिहंता अरिहंता तु मे सरणं / / 16 / / परमनोगतं जानन्तो योगीन्द्रमहेन्द्रध्यानमर्हन्तः / धर्मकथामर्हन्तोऽर्हन्तो भवन्तु मे शरणम् / / 16 / / परेषामात्मव्यतिरिक्तानां मनांसि परमनांसि तेषु गतं स्थितं चिन्तितमित्यर्थः, 'मुणत्' प्रतिज्ञाने [सिद्धहेमधातुपाठे तस्य 1365 - धात्वङ्क] तं मुणन्तो जानन्तः / यदाह - 1. 'जिण'-ड प्रत्यां नास्ति / 2. राज्यश्रिय-डर, ल, 3. ते-ड, 4. तः तत्तस्या-डर, 5. भवन्तु' डर नास्ति / 6. गइं-ड,P-परि-२ /