________________ खण्ड-१ : श्लोक-१३, 14 यदसार्हच्छरणमुररीकुर्वन् भणति तद् गाथादशकेनाऽऽह - राग-द्दोसारीणं हंता कम्मट्ठगाइअरिहंता / विसय-कसायारीणं अरिहंता हुंतु मे सरणं / / 13 / / रागद्वेषारीणां हन्तारः कर्माष्टकाद्यरिहन्तारः / / विषयकषायारीणामर्हन्तो भवन्तु मे शरणम् / / 13 / / द्रव्य-भावभेदाद् द्वेधा रागः, तत्र द्रव्यरागो हरिद्रादिः, भावरागस्त्रिधा-दृष्टिरागः, विषयरागः, स्नेहरागः / तत्र दृष्टिरागो यथा स्वर्गादागतस्य कपिलस्य आसुरे रमसे रमसे इत्येवं भणतः / विषयरागः सुकुमारिकायां 'देवगतिराजस्येव / स्नेहरागो नाम यो यस्मिन् भावे मूर्छितः, यथा अर्हनकपत्नी अरिहमित्रेऽध्युपपन्ना / अथवा मायालोभभावेनाऽभिष्वङ्गमात्रं रागः / द्वेषः परद्रोहाऽध्यवसायः मधुदेवपिप्पलादयोरिवाथवानभिव्यक्त क्रोधमानस्वरूपमप्रीतिमात्रं द्वेषः / मदमत्सराऽहङ्काराणां तज्जातीयानां रागद्वेषावुपलक्षणम्, ततस्त एवाऽरयो राग-द्वेषारयस्तेषां हन्तारः / कर्माष्टकं प्रतीतम्, आदिशब्दात् परीषहवेदनोपसर्गग्रहः, ततः कर्माष्टकाद्येवाऽरयः कर्माष्टकाधरयो लुप्तषष्ठीविभक्तित्वात्तेषां हन्तारः शब्द-रूप-गन्ध-रस-स्पर्शा विषयाः, क्रोध-मानमाया-लोभाश्चत्वारः कषायाः, पुनरेकैकशोऽपि अनन्तानुबन्ध्यप्रत्याख्यान-प्रत्याख्यानावरणसज्जवलनभेदाञ्चतुर्धा / विषयाश्च कषायाश्च इति द्वन्द्वस्त एवाऽरयस्तेषां हन्तारोऽर्हन्तो जिना मे मम अपारसंसारकारागृहपरिचङ्क्रमणभयाऽऽतुरस्य प्रबलरागादिदुष्टपापिष्ठगुप्तिपालानिष्टकदर्थनात्रासवित्रस्तमनसः समाश्वासनस्थानकल्पं शरणं परित्राणं भवन्त्वित्यर्थः / / 13 / / रायसिरिमवकसित्ता तव-चरणं दुसरं अणुचरित्ता / केवलसिरिमरिहंता अरिहंता हुतु मे सरणं / / 14 / / राज्यश्रियमपकृष्य तपश्चरणं दुश्चरमनुचर्य / केवलश्रियमर्हन्तोऽर्हन्तो भवन्तु मे शरणम् / / 14 / / राज्यश्रियं राज्यलक्ष्मीमपकृष्याऽवधूय, तप्यते कर्ममलाऽपनयनेनाऽऽत्मा सुवर्णमिवाऽग्निना अनेनेति तपस्तस्य चरणं सेवनम्, कथम्भूतम् ? दुश्चरं सामान्यसाधुभिः कर्तुमशक्यम्, तथा च - 1. भावाद्-ड२, 2. इति-ड२, 33 प्रत्याः नास्ति / 3. देवरति-ड, 4. 'यो' इति पाठ डर, ड३, ल प्रतिषु नास्ति / 5. ध्योपपन्ना-ल, डर, 6. स्वभावेन-ड,७. मायालोभकोधमान स्वरुप-5,८. रागद्वेषानुपलक्षणं ल, डर, ड३, 9. 'तेषां हन्तारः' इति पाठः डर,ल पुस्तके नास्ति / 10. कषायाश्च इतिपाठः ड२, ल पुस्तके नास्ति /