________________ चतुःशरणप्रकीर्णकम् : श्लोक-१२ शार्दूलविक्रीडितवृत्तम्] "ये जानन्ति विचित्रशास्रविसरं ये मन्त्रतन्त्रक्रियाप्रावीण्यं प्रथयन्ति ये च दधति द्योतिः कलाकौशलम् / तेऽपि प्रेतपतेरमुष्य सकलत्रैलोक्यविध्वंसनव्यग्रस्य प्रतिकारकर्मणि न हि प्रागलभ्यमाबिभ्रति" / / "नानाशास्रपरिश्रमोद्भटभटेरावेष्टिताः सर्वतः, गत्युद्दाममदान्धसिन्धुरशतैः केनाऽप्यगम्याः क्वचित् / शक्रश्रीपतिचक्रिणोऽपि सहसा कीनाशदासैर्बलादाकृष्टा यमवेश्म यान्ति हहहा विस्राणता प्राणिनः" / / [प्रव. सारो. 67 द्वार, 573 गाथाया आन्तरश्लोका-१,२,३] अथ कथमपि बहुक्षीणेष्वशुभकर्मसु, प्राग्जन्मोपात्तशुभकर्मवशाञ्च युगसमिलान्यायेन कथञ्चनापि मानुषत्वाद्यवाप्तिस्ततोऽपि देशविरतिसर्वविरतिलाभस्तल्लाभेऽपि सति धन्यः सुकृतकर्मा एवार्हत्सिद्धसाधुधर्मान् शरणं कथञ्चन लभते शरणत्वेन प्रतिपद्यत इति गाथार्थः / / 11 / / अथ यथाविधिना एतान् शरणं प्रतिपत्स्यति तथा आह - अह सो जिणभत्तिभरुच्छरंतरोमंचकंचुयकरालो / पहरिसपणउम्मीसं सीसम्मि कयंजली भणइ / / 12 / / अथ स जिनभक्तिभरोच्छलद्रोमाञ्चकञ्चककरालः / . प्रहर्षप्रणयोन्मिश्रं शीर्षे कृताञ्जलिर्भणति / / 12 / / अथ स शरणप्रतिपत्तौ चतुर्विधसङ्घस्यान्यतमो जीवः कथम्भूतः ? जिनेषु भक्तिर्जिनभक्तिस्तस्य भरस्तस्माज्जिनभक्तिभरादवस्तृणत्रुदयं गच्छन्नसौ रोमाञ्चः स एव कञ्चुको रोमाञ्चकञ्चकस्तेन करालोऽन्तरङ्गशत्रूणां भीषणः / तथा प्रहर्षाद् यत् प्रणतं प्रणामस्तेनोन्मिश्रं व्याकुलं भवत्येवम् / यदिवा प्रहर्षवशाद् योऽसौ प्रणय आनन्दाश्रु गद्गदस्वरस्तेन शीर्षे मस्तके कृतकरकुड्मलः सन् भणति / / 12 / / 1. क्रियाः डर, ल, 2. वेष्टितः डर, ल, 3. महसा-ड, 4 हहा ल, डर, ड३, 5. निस्त्राणता प्रव.सारो, मु, ६.,प्रतिपत्ता-ड, 7. गच्छन् योऽसौ-ड, 8. 'प्रवशाद' इत्याकारकः पाठोऽसमीचीनः भाति / 9. 'शीर्षे' इति पाठः ल. ड२ प्रत्यो स्ति /