________________ चतुःशरणप्रकीर्णकम् : श्लोक-१०, 11 अथ वर्णनीयाध्ययनाऽर्थाऽधिकारानाह - चउसरणगमण, दुक्कडगरिहा सुकडाणुमोयणा चेव / एस गणो अणवरयं, कायव्वो कुसलहेउ त्ति / / 10 / / [यो०श०५०] चतुःशरणगमनं, दुष्कृतगर्हा, सुकृतानुमोदना चैव / एष गणोऽनवरतं कर्त्तव्यः कुशलहेतुरिति / / 10 / / चतुर्णामर्हत्-सिद्ध-साधु-धर्माणां शरणं गमनं चतुःशरणगमनं, तदिह प्रथमोऽर्थाऽधिकारः / दुष्टं कृतं दुष्कृतं तस्य गर्दा गुरुसाक्षिकमात्मदोषकथनं स द्वितीयोऽर्थाऽधिकारः / शोभनं कृतं सुकृतं, तस्याऽनुमोदना भव्यं मयैतत् कृतमिति, स तृतीयोऽर्थाऽधिकारः / चैव समुच्चये, एष अयं यो भणितुमारब्धः, गण स्त्रयाणां समुदायः, अनवरतं सततं कर्तव्योऽनुसरणीयः / कुशलो मोक्षः तस्य हेतुः कारणमिति कृत्वा / / 10 / / * अथ चतुःशरणमिति प्रथमाधिकारं वर्णयितुमाह - अरिहंत सिद्ध साहू, केवलिकहिओ सुहावंहो धम्मो / एए चउरो चउगइहरणा, सरणं लहइ धन्नो / / 11 / / . अर्हन्तः, सिद्धाः, साधवः, केवलिकथितः सुखावहो धर्मः / एते चत्वारश्चतुर्गतिहरणाः, शरणं लभते धन्यः / / 11 / / , देवेन्द्रादिकृतां पूजामर्हन्तीत्यर्हन्तः / यदाह - “अरिहंति वंदण-नमंसणाणि, अरिहंति पूयसकारं / सिद्धिगमणं च अरिहा, अरिहंता तेण वुचंति" / / [आव. नि. 915] तेऽर्हन्तः प्रथमं शरणम् / तथा सिद्ध्यन्ति निष्ठितार्था भवन्तीति सिद्धाः, सितं ध्मातं वाऽष्टप्रकारं कर्म यैस्ते सिद्धाः / तथा च - ""दीहकालरयं जं तु, कम से सियमट्ठहा / सियं धंतं ति सिद्धस्स सिद्धत्तमुवजायई" / / [आव. नि. 947] 1. गुणो ड, डर, ड३ / M-N परि-२ /