________________ खण्ड-१ : श्लोक-९ प्रतिहततमस्तोमंतेजःपुञ्जाकीर्णं, पञ्चवर्णं रत्नराशिमपश्यत् तदत्यद्भूतगुणरत्नव्रजमात्मजमावेदयति / सिहि च त्ति चः समुच्चये यच्च विगतधूम, ज्वलज्ज्वालामालाऽऽकुलं ज्वलनं विलोकितवती तदन्यतेजस्वितेजोऽपहारिणं पुत्रं सूचयति / तदेभिश्चतुर्दशभिर्महास्वप्नैः सूच्यते चतुर्दशरज्ज्वात्मकस्याऽपि लोकस्योपरिवर्ती पुत्रो भविष्यतीति / / 8 / / इति निवेदितं सर्वतीर्थकृद्गुणव्यावर्णग) मङ्गलम् / अथाऽऽसन्नोपकारित्वात् श्रीमन्महावीरस्य नमस्करणद्वारेण पुनस्तदाह - अमरिंद-नरिंद-मुणिंदवंदियं वंदिउं महावीरं / कुसलाणुबंधि बंधुरमज्झयणं कित्तइस्सामि / / 9 / / अमरेन्द्रनरेन्द्रमुनीन्द्रवन्दितं वन्दित्वा महावीरम् / ... कुशलानुबन्धि बन्धुरमध्ययनं कीर्तयिष्यामि / / 9 / / उपक्रमकृतेनाऽपि मृत्युना न म्रियन्ते इत्यमरास्तेषामिन्द्राः [अमरेन्द्राः], नराणामिन्द्रा नरेन्द्राः, मुनीनामिन्द्रा मुनीन्द्रास्ततो द्वन्द्वस्तैर्वन्दितं, वन्दिउं त्ति वन्दित्वा, महद् वीर्यं यस्याऽसौ महावीरस्तम् / यदाह चूर्णिकृत् “महावीरो नाम गुणनिप्फनं" ति महन्तं वीरियं यस्य स भवति. महावीरः, "सव्वदेवा वि णं अंगुट्ठएणं पंडुकंबलसिलाए अवट्ठियं तित्थयरं उप्पिलिजा न सकंति उप्पिल्लेउं एवं सकलरयणप्पभाइ पुढवी मेकैमि घित्तूण, . सत्त वि पुढवीओ साहणित्ता अलोए पक्खिविज्जा एरिसं वीरियं सा य अईव लण्हा उच्चा य ततो महाविरियजुत्तो" इति महावीरो त्ति नाम इत्ति [आव. चूर्णि] / कुशलो मोक्षस्तमनुबघ्नातीत्येवंशीलं कुशलाऽनुबन्धि बन्धुरं मनोज्ञम् / अधीयते ज्ञायते परिच्छिद्यतेऽर्थसमुदायोऽस्मादिति अध्ययनं शास्त्रं कीर्तयिष्यामि वर्णयिष्यामि / / 9 / / 1. "मेरुं' इति पाठो ल, डर प्रत्योरस्ति / 2. आड२/ड३, 3. खिविज्जा-डर, 4. नाममित्ति इति पाठो 'ल' प्रतौ नास्ति। ५.वर्णयिष्यामि इति पाठो 'ड२/ड३' प्रत्योः नास्ति /