________________ चतुःशरणप्रकीर्णकम् : श्लोक-८ गय त्ति तत्र जिनजननी चतुर्दन्तं, प्रक्षरन्मदनदीसुन्दरं, गोक्षीरधारासोदरमुञ्चैस्तरं, जङ्गमं रजताचलमिव गजकलभं यदपश्यत् तदतुलबलपराक्रमनिधिं, गरीयसामपि गुरुं, पवित्रं पुत्रं सूचयति / वसह त्ति यञ्च वर्णतः शङ्खसुहदं, प्रौढककुदं, हम्भारम्भास्वरभासुरं, प्रमाणतो बृहत्तरं ककुद्यन्तमपश्यत् तन्महामोहपकमग्नधर्मरथधुरोद्धरणक्षमं तनयं सूचयति / सीह 'त्ति कपिललोचनयुगलं, चटुलकेसराविसरं, दीर्घरसनं, पुच्छच्छटाऽऽच्छोटितभूपीठं कण्ठीरवं यद्ददर्श तद् सर्वत्राऽस्खलितविक्रम, शूरं, धीरं, पुरुषसिंहमुद्वहं सम्भावयति / अभिसेय त्ति पार्श्वद्वयवर्त्तिकरिकलभप्रचण्डशुण्डादण्डविधृतकलकलशयुगलाऽभिषिच्यमानमूर्ति, कमलासनां कमलां यदद्राक्षीत् तत् त्रैलोक्यसाम्राज्यलक्ष्मीनाथं नन्दनमावेदयति / दाम य त्ति उच्छलन्मञ्जुलमकरन्दरजः पुञ्जाम्, अमलबहुलपरिमलाऽऽकृष्टभ्रमरभरभज्यमानां, पञ्चवर्णकुसुमस्तोमां मालां यदवलोकयत् तत् त्रिजगतोऽपि मालामिव शिरोवाह्यशासनं नन्दनं दर्शयति / ससि त्ति कुमुदाकरामोदकं पार्वणेन्दु यद् दृष्टवती तत्रिभुवनजननयनचकोरचमत्कृतिकारकं दारकमावेदयति / दिणयरं ति अस्ततमोनिकरं, लोकोद्योतकरं दिनकरं यदीक्षामास तनिहतकुमतोलूकततिं, त्रिजगदुल्लासकमति, विक्षिप्तमहामोहान्धकारस्थितिं सुतं प्रथयति / झयं ति सरत्नसन्ततिविडम्बितं, किङ्किणीसहस्रपरिमण्डितं महाध्वजं यदवलोकयामास तन्निजवंशप्रासादशिरोदेशस्य ध्वजविभ्राजिवैभवमात्मसम्भवं सम्भावयति / कुंभ ति यञ्च कमलपरिधानं, प्रभूतरत्ननिधानं, शातकुम्भमयं कुम्भमवलोकितवती तत् सकलातिशयशालिनं, निजकुलप्रासादस्य कलशसदृशं पुत्र प्रकाशयति / पउमसरं ति यच्च पालीपर्यन्तायातसलिलकुसलीसङ्कुलं, पद्मखण्डमण्डितं पद्मसरो दृष्टवती तत् संसारकान्तारपरिभ्रमणश्रान्तसमस्तजनसन्तापाऽपहारिणं, गुणकारिणं पुत्रं प्रकटयति ' / सागरं ति यञ्च प्रचुरपरिमज्जज्जलचरजन्तुविसरं भूरिरत्नाकरं व्यलोकयत् तद् गरिमगम्भीरिमारम्यं, परतीर्थिभिरगम्यं, सागरान्तमेदिनीजनाऽनुष्ठितशासनं नन्दनं कथयति / विमाण त्ति अनेकरत्नमयस्तम्भशताऽऽकीर्णं, क्षुद्रघण्टिकामन्दटणत्कारमुखरितदिगन्तरं, जयजयारावसुन्दरं विमानं यदपश्यत् तद् वैमानिकसुराणामपि सेव्यं तनूद्भवमुद्भावयति / भवणं ति विमान-भवनयोराकारकृतो विशेषः / किञ्च तीर्थकृतो हि नरकदेवलक्षणगतिद्वयादेव समायाता भवन्ति / तत्र नरकगतेराद्यपृथ्वीत्रयादेव, देवगतेरपि भवनपतिव्यन्तरज्योतिष्कवर्जितेभ्यो वैमानिकेभ्य एव, तत्र यस्तीर्थकृत् विमानवासिभ्यः समायाति तज्जननी विमानं पश्यति, यस्तु नरकात्समायाति तज्जननी भवनमिति / रयणुञ्चयं ति यच्च 1. धारासुन्दरमु-डर, 2. कुकुदमन्तमिति पाठो ल, ड, ड३ प्रतिष्वस्ति / किन्तु स अशुद्धः प्रतिभासते / 3. स्तोमं-ड-डर, ल, प्रतिष्वशुद्धः पाठ आभाति 4. पिधानं-ड, 5. 'गुणकारिणम्' इति पाठो 'डर' आदर्श नास्ति / 6. 'प्रचुर' इति पाठो-ल, डर, आदर्श नास्ति / 7. नाष्टित-ड, 8. सेव्यमदभावयति इति ल, ड२ प्रत्योः पाठोऽस्ति। 9. नारकात-ल, डर /