________________ खण्ड-१ : श्लोक-८ गुणधारणरूपेण प्रत्याख्यानेन तपोऽतिचारस्य / .. वीर्याचारस्य पुनः सर्वैरपि क्रियते शोधिः / / 7 / / गुणाः विरत्यादय उत्तरोत्तरगुणाः, [विरतेः] आश्रवद्वारस्थगनम्, तत् स्थगनाञ्च तृष्णाव्यवच्छेदस्तृष्णाव्यवच्छेदाचातुलोपशमस्तस्माञ्च प्रत्याख्यानशुद्धिस्तच्छुद्धेश्च चारित्रनैर्मल्यं तस्माञ्च कर्मविवेकस्तस्माच्चापूर्वकरणम्, अपूर्वकरणाञ्च केवलज्ञानम्, ततश्च मोक्षो भवतीत्युत्तरोत्तरगुणास्तेषां गुणानां धारणं गुणधारणं तदेव रूपं यस्य, तेनानागतादिदशविधेन सप्तविंशतिविधेन वा यदाह चूर्णिकृत् - 1 "एयस्स दसविहस्स पञ्चक्खाणस्स सव्वस्स वा सत्तावीसइविहस्स, . तं जहा - पंचमहव्वया, दुवालसविहो सावगधम्मो, दसविहं उत्तरगुणपञ्चक्खाणं एए सत्तावीसहा" [आव. चूर्णि. पत्र-३११] इत्यनेन प्रत्याख्यानेन तप आचारातिचारस्य "बारसविहमि वि तव" इत्यादिकस्य शुद्धिः क्रियते इति हृदयम् / वीरियायारस्स'त्ति विशेषेणेरंयति प्रवर्त्तयत्यात्मानं तासु तासु क्रियास्विति वीर्यमुत्साहविशेषस्तञ्च पञ्चधा, यदाह - . . “तवविरियं गुणविरियं, चरित्तविरियं समाहिविरियं च / ... आयविरियं 'पिय तहा, पंचविहं वीरियं होई" / / [ ] तस्याऽऽचारो वीर्याचारः “अणिमूहियबलविरिओ" इत्यादिकस्तस्य सर्वरपि षड्भिरपि शुद्धिः क्रियते इत्यर्थः / यदाह - "आवस्सएसु जह जह, कुणइ पयत्तं अहीणमइरित्तं / तिविहकरणोवउत्तो, तह तह से निजरा होइ" / / [आव० नि. 1214] इति / / 7 / / व्यावर्णिताचारपञ्चकशुद्धिरथ सर्वतीर्थङ्करगुणोत्कीर्त्तनगर्भ मङ्गलभूतं गजादिसन्दर्भमाह - .. गय वसह सीह अभिसेय, दाम ससि दिणयरं झयं कुंभं / पउमसर सागर विमाण-भवण रयणुञ्चय सिहिं च / / 8 / / [कल्प.सू.] गजं वृषभ सिंहम् अभिषेकं (श्रियः), दाम शशिन दिनकरं ध्वजं कुम्भम् / पद्यसरः सागरं विमान-भवनं, रत्नोञ्चयं शिखिनं च / / 8 / / - छेदात् तृष्णोपशम-ड, 2. पि तहा ड२ / -परि-२ /