________________ चतुःशरणप्रकीर्णकम् : श्लोक-७ “पडिक्कमणेणं भंते ! जीवे किं जणयइ ? पडिक्कमणेणं वयछिद्दाई पिहेई..." [उत्तरा. 29/11] त्ति / / 5 / / चरणाइय त्ति चरणमतिगच्छन्त्यतिक्रामन्ति चरणातिगास्ते आदौ येषां ते चरणातिगादिकाः अतिचारा दृश्यन्ते, तेषाम् / यथाक्रम क्रमप्राप्तेन पञ्चमप्रायश्चित्तेन, वणतिगिच्छरूवेणं ति द्रव्यभावभेदेन द्विधा व्रणस्तत्र द्रव्यव्रणः कण्टकादिः, भावव्रणस्त्वतिचारशल्यरूपः / यदाह - H"मूलुत्तरगुणरूवस्स, ताइणो परमचरणपुरिसस्स / अवराहसल्लपभवो, भाववणो होइ नायव्वो" / / [आव. नि. 1424 अन्त. गाथा] तस्य या चिकित्सा प्रतीकारः सैव रूपं यस्य स तेन व्रणचिकित्सारूपेण तत्प्रतीकारकारणत्वात् / चरणातिगादिकानां कथम्भूतानाम् ? प्रतिक्रमणेनाशुद्धानामर्धशुद्धानां वा / 'सोही तह' त्ति तथैव शुद्धिः क्रियते / केन ? 'काउस्सग्गेणं' त्ति उत्सर्जनं त्यजनं उत्सर्गः [कायस्य उत्सर्गः] कायोत्सर्गः, तेन ते शोध्यन्त इत्यर्थः, कायोत्सर्गस्य महन्निर्जराकारणत्वात्, तथाहि - "जह करगओ निकितइ, दारुं इंतो पुणो वि वञ्चंतो / इय कंतंति सुविहिया, काउस्सग्गेण कम्माई" / / [आव. नि. भाष्य-२३७] ' "काउस्सग्गे जह, सुट्ठियस्स भजति अंगुवंगाई / . इय मिदंति सुविहिया, अट्ठविहं कम्मसंघायं" / / [आव. नि. 1551] K"तम्हा उ निम्ममेणं, मुणिणा उवलद्धसुत्तसारेण / , काउस्सग्गो उग्गो, कम्मक्खयट्ठा य कायव्वो" / / इति [आव. नि. 1554] ननु 'नाणाईया उ गुणा' इत्यत्र ज्ञानादय इत्युक्तम्, 'चरणाइयाइयाण'मित्यत्र चरणादय इति तत्कोऽत्र विशेषः ? उच्यते - एकत्र ज्ञाननयप्राधान्याश्रयणेन ज्ञानादय इति उक्तमपरत्र क्रियानयप्राधान्गविवक्षणेन चरणादय इति / / 6 / / वर्णिताऽऽचारत्रयशुद्धिर्गाथापञ्चकेनाऽथ चतुर्थपञ्चमाचारावेकगाथयैवाऽऽह - गुणधारणरूवेणं, पञ्चक्खाणेण तवइयारस्स / विरियायारस्स पुणो, सव्वेहि वि कीरए सोही / / 7 / / 1. साध्यन्त-ल, ड३। सोध्यन्त-ड, 2. चरणाइयाणम् डर, ड३, ल, 3. उक्तं परमत्र-ल, 4. विचक्षणेन-ड, ल, ड३, G-H-1-J-K-परि-२ / * व्याकरणोक्तसामान्यनियमेनात्र ‘महानिर्जराxx' पदं सम्भाव्यते / किन्तूपलब्धासु सर्वासु प्रतिषु महन्निर्जराxx' पदमेव लभ्यते, तस्मादार्ष इति न्यायेन तदेव स्वीकृतम् - सम्पा०