________________ खण्ड-१ : श्लोक-५, 6 "विणयोवयार माणस्स, भंजणा पूयणा गुरुजणस्स / / तित्थयराण य आणा, सुयधम्माराहणाऽकिरिया" / / [आ. नि. 1215] इति प्रतिपादिता वन्दनकेन ज्ञानाद्याचारत्रयशुद्धिः / / 4 / / पुनस्तेषामेव त्रयाणां विशेषतो गाथाद्वयेन प्रतिक्रमणकायोत्सर्गाभ्यां तामाह - खलियस्स य तेसि, पुणो विहिणा जं निंदणाइपडिकमणं / तेण पडिक्कमणेणं, तेसि पि य कीरए सोही / / 5 / / स्खलितस्य च तेषां पुनर्विधिना यन्निन्दनादिप्रतिक्रमणम् / तेन प्रतिक्रमणेन तेषामपि च क्रियते शोधिः / / 5 / / चरणाइयाइयाणं, जहक्कम वणतिगिच्छरूवेणं / पडिकमणासुद्धाणं, सोही तह काउसग्गेणं / / 6 / / चरणातिगादिकानां यथाक्रमं व्रणचिकित्सारूपेण / प्रतिक्रमणाशुद्धानां शोधिस्तथा कायोत्सर्गेण / / 6 / / * स्खलितस्य व्रतविषयेऽतिक्रमादिना सञ्जातस्याऽपराधस्य तेसि त्ति ज्ञानाचारादीनाम् / कथम् ? पुणो त्ति, पुनरपि प्रतिषिद्धकरण-कृत्याऽकरणा-ऽश्रद्धान-विपरीतप्ररूपणादिषु विधिना सूत्राऽनतिक्रमेण / जं निंदणाय त्ति यत् निन्दना, प्राकृतत्वात् निन्दनं दुष्टं मयैतत्कृतमिति, परसाक्षिकमात्मदोषाविष्करणम् / यदाह - "मणसा मिच्छादुक्कड-करणं भावेण इह पडिक्कमणं / स चरित्तपच्छयावो, निंदा गरिहा गुरुसमक्ख त्ति" || [ ] 'न पुनः करिष्यामि' इति यदुररीकरणम्, तस्माद्दोषजातान्निवर्त्तनम्, तत्प्रतिक्रमणमुच्यते, प्रतीपं क्रमणं प्रतिक्रमणमिति व्युत्पत्तेः, केषाञ्चित् तद्विधेयमित्याह - मिच्छत्तपडिक्कमणं, तहेव अस्संजमे पडिक्कमणं / - केसायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं" / / [आ. नि. 1250] इत्यादि / अतः कारणात्तेन प्रतिक्रमणेन तेसि पि यत्ति न केवलं सामान्यापराधानाम्, तेषामपि ज्ञानाचारादीनां क्रियते शोधिः / यदाह भगवान् सुधर्मा - 1. निंदणइ ड, ड२, 2. व्युत्पत्तिः ल, 3. केषां च ड३, 4. मिच्छित-ल, ड, 5. कषाया पडि-डर, E-F परि-२ /